________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
__ अशुचौ देशेऽशुचावात्मनि च । तथा विद्युत्संप्लवे पुनः पुनर्विद्योतमानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनःपुनर्मेघघोषे तावत्कालिकोऽनध्यायः । भुक्त्वार्द्रपाणि धीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्वये अतिमारुतेऽहन्यपि तावत्कालं नाधीयीत ॥ १४९ ॥
पांसुप्रतर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १५० ॥ । औरपातिके रजोवर्षे । दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते। संध्ययोः, नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तत्कालमनध्यायः । धावतस्त्वरितं गच्छतोऽनध्यायः । पूतिगन्धे अमेध्यमद्यादिगन्धे । शिष्टे च श्रोत्रियादौ गृहं प्राप्ते तदनुज्ञावध्यनध्यायः ॥ १५० ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥१५१ ॥ यानं रथादि । इरिणमूरं मरुभूमिवां । खरादीनामारोहणे तावत्कालमनध्यायः । एवं श्वकोष्टगर्दभेत्यस्मादारभ्य सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्निमित्तसमकालान्विदुरनध्यायविधिज्ञाः । विदुरित्यनेन स्मृत्यन्तरोक्तानन्यानपि संगृह्णाति । यथाह मनुः (११२)-'शयानः प्रौढपादश्च कृत्वा चैवावसविणकाम् । नाधीयीतामिषं जग्ध्वा सूतकानाद्यमेव च ॥' इत्यादि ॥ १५१ ॥ एवमनध्यायानुक्त्वा प्रकृतानि स्नातकव्रतान्याह
देवर्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः।
नाकामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥ १५२ ॥ देवानां देवार्चानामृत्विक्स्नातकाचार्यराज्ञां परस्त्रियाश्च छायां नाकामेनाधितिष्ठेन लङ्घयेद्बुद्धिपूर्वकम् । यथाह मनुः (४।१३०)-'देवतानां गुरो राज्ञः सातकाचार्ययोस्तथा । नाकामेकामतश्छायां बभ्रुणो दीक्षितस्य च ॥' इति । बभ्रुणो नकुलवर्णस्य यस्य कस्यचिद्गोरन्यस्य वा श्यामादेः । बभ्रुण इति नपुंसकलिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठेत् । आदिग्रहणास्त्रानोदकादेर्ग्रहणम् । (मनुः ४१३२)-'उद्वर्तनमपम्नानं विण्मूत्रं रक्तमेव च । श्लेष्मनिष्ट्यूतवान्तानि नाधितिष्ठेत कामतः ॥' इति ॥ १५२ ॥
विवाहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियमाकाङ्गेन कंचिन्मर्मणि स्पृशेत् ॥१५३ ॥ विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिदपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । आमृत्योर्यावजीवं श्रियमिच्छेत् । न कंचिदपि पुरुषं मर्मणि स्पृशेत् कस्यचिदपि मर्म दुश्चरितं न प्रकाशयेत्॥१५३॥
१ पांसुवर्षे दिशां दाहे क. पांसुवर्षे च दिग्दाहे ग. २ गृहमागते क. ३ ऊखरं क. ४ रध्ययन क. रध्यापन ग. ५ कृतावसक्थिक ऊरुभ्यामवनि गतः. ६ सोमादेः ग.
For Private And Personal Use Only