________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्नातकधर्मप्रकरणम् ६] मिताक्षरासहिता ।
संध्यागर्जितनिर्यातभूकम्पोल्कानिपातने। ..
समाप्य वेदं धुनिशमारण्यकमधीत्य च ॥ १४५ ॥ संध्यायां मेघध्वनौ, निर्घाते आकाशे उत्पातध्वनौ, भूमिचलने, उल्कापतने, मन्त्रस्य ब्राह्मणस्य वा समाप्ती आरण्यकाध्ययने च थुनिशमहोरात्रमनध्यायः १४५
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुस्तके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १४६ ॥ पञ्चदश्याममावास्यायां पौर्णमास्यां चतुर्दश्यामष्टम्यां राहुसूतके चन्द्रसूर्योपरागे च धुनिशमनध्यायः । यत्तु-'न्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके' इति तदस्तास्तमयविषयम् । ऋतुसंधिगतासु च. प्रतिपत्सु श्राद्धिकभोजने तत्प्रतिग्रहे च धुनिशमनध्यायः । एतच्चैकोद्दिष्टव्यतिरिक्तविषयम् । तत्र तु त्रिरात्रम् (मनुः ॥११०)–'प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । व्यहं न कीर्तयेब्रह्म' इति स्मरणात् ॥ १४६ ॥
पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः ।
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १४७॥ अध्येतॄणां पश्वादिभिरन्तरागमने कृते शक्रध्वजस्थावरोपणदिवसे उच्छ्रायदिवसे चाहोरात्रमनध्यायः। युनिशमिति प्रकृते पुनरहोरात्रग्रहणं संध्यागर्जिन. निर्घातभूकम्पोल्कानिपातनेष्वाकालिकत्वज्ञापनार्थम् । --'आकालिकनिर्घातभूकम्पराहुदर्शनोल्काः' इति गौतमवचनात् । निमित्तकालादारभ्यापरेधुर्यावत्स एव कालस्तावत्कालः अकालः तत्र भव आकालिकोऽनध्यायः । एतञ्च प्रातःसंध्यास्तनिते । सायंसंध्यास्तनिते तु रात्रिमेव । -'सायसंध्यास्तनिते तु रात्रि प्रातःसंध्यास्तनितेऽहोरात्रम्' इति हारीतस्मरणात् । यत्पुनर्गौतमेनोक्तं 'श्वनकुलसर्पमण्डूकमार्जाराणामन्तरागमने व्यहमुपवासो विप्रवासश्चेति तत्प्रथमाध्ययन एव ॥ १४७ ॥
श्वक्रोष्ट्रगर्दभोलूकसामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १४८ ॥ श्वा कुक्कुरः । कोष्टा सृगालः । गर्दभो रासभः । उलूको घूकः । साम सामानि । बाणो वंशः । आतॊ दुःखितः । एषां श्वादीनां निःस्वने तावत्कालमनध्यायः । एवं वीणादिनिःस्वनेऽपि ।- 'वेणुवीणाभेरीमृदङ्गगच्यार्तशब्देषु' इति गौतमवचनात् । गत्री शकटम् । अमेध्यादीनां संनिधाने तावत्कालिकोऽनध्यायः ॥ १४८॥
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥ १४९॥ १ उत्सवदिवसे. २ संध्यामहोरात्रं ख. ३ मार्जाराणां त्र्यहं ख. ४ ध्ययनविषय एव ख.
For Private And Personal Use Only