________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थधर्मप्रकरणम् ५ ] मिताक्षरासहिता ।
३९
नादतात।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १२६ ॥ एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथंचिदसंभवे तत्काले वैश्वानरीमिष्टिं कुर्यात् । किंच योयं हीनकल्प उक्तः सति द्रव्येऽसौ न कर्तव्यः । यच्च फलप्रदं काम्यं तद्धीनकल्पं न कुर्वीत न कर्तव्यमेव ॥ १२६ ॥
चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ।
यज्ञार्थ लब्धमददद्भासः काकोऽपि वा भवेत् ॥ १२७ ॥ यज्ञार्थं शूद्रधनयाचनेन जन्मान्तरे चण्डालो जायते । यः पुनर्यज्ञार्थं या. चितं ने सर्व प्रयच्छति न त्यजति स भासः काकोऽपि वा वर्षशतं भवेत् । यथाह मनुः (११।२५)-'यज्ञार्थमर्थ भिक्षित्वा यः सर्वं न प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥' इति । भासः शकुन्तः। काकः प्रसिद्धः ॥ १२७ ॥
कुशूलकुम्भीधान्यो वा व्याहिकोऽश्वस्तनोऽपि वा।। कुशूलं कोष्ठकं, कुम्भी उष्ट्रिका, कुशूलं च कुम्भी च कुशूलकुम्भ्यौ ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्याप्तं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भीधान्यस्तु स्वकुटुम्बपोषणे पडहमात्रपर्याप्तधान्यः । व्यहपर्याप्तं धान्यमस्यास्तीति च्याहिकः । श्वोभवं धान्यमस्यास्तीति श्वस्तनः। न विद्यते श्वस्तनं यस्य सोऽश्वस्तनः॥
कुशूलधान्यादिसंचयोपायमाह..जीवेद्वापि शिलोच्छेन श्रेयानेषां परः परः ॥ १२८॥
शाल्यादिनिपतितपरित्यक्तवल्लरीग्रहणं शिलम् । एकैकस्य परित्यक्तस्य कणस्योपादानमुन्छः, शिलं चोञ्छश्च शिलोज्छं तेन शिलेनोच्छेन वा । कुशूलधान्यादिश्चतुर्विधो गृहस्थो जीवेत् । एषां कुशूलधान्यादीनां ब्राह्मणानां गृहस्थानां चतुर्णी परः परः पश्चात्पश्चात्पठितः श्रेयान्प्रशस्यतरः । एतच्च यद्यपि द्विजः प्रेकृतस्तथापि ब्राह्मणस्यैव भवितुमर्हति विद्योपशमादियोगात् । तथाच मनुना (१२)-'भद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः। या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥” इति विप्रमेव प्रस्तुत्य (मनुः ४७)-'कुशूलधान्यको वा स्थाकुम्भीधान्यक एव वा' इत्याद्यभिहितत्वात् । एतच्चानतिसंयतं यायावरं प्रत्युच्यते न विप्रमात्राभिप्रायेण । तथा सति- त्रैवार्षिकाधिकानो यः स हि सोमं पिबेट्विजः' इत्यनेन न विरोधः । तथाच गृहस्थानां द्वैविध्यं तत्र तत्रोकम् । यथाह देवल:-'द्विविधो गृहस्थी यायावरः शालीनश्च । तयोर्यायावरः प्रवरो याजनाध्यापनप्रतिग्रहरिक्थसंचयवर्जनात् । षट्कर्माधिष्ठितः प्रेष्य. १ न. परित्यजति क. २ शाल्यादेनिपतित. क. ३ ब्राह्मणानां चतुर्णी ख. ४ श्रेयानुत्कृष्टतमः ख. ५ प्रकृतः प्रकरणप्राप्तः प्राकृतः ख.६ पुरस्कृत्य क.७ नतिसंपन्नसंयतं क.
For Private And Personal Use Only