________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः चतुष्पदगृहग्रामधनधान्ययुक्तो लोकानुवर्ती शालीनः' इति । शालीनोऽपि चतुर्विधः याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपाशुपाल्यैः पनिर्जीवत्येकः । याजनादिभिस्त्रिभिरन्यः । याजनाध्यापनाभ्यामपरः । चतुर्थस्त्वध्यापनेनैव । तथाह मनुः (१९)-'षट्कमैको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥' इति । अत्र च 'प्रतिग्रहोऽधिको विप्रे' इत्यादिना शालीनस्य वृत्तयो दर्शिताः । यायावरस्य जीवेद्वापि शिलोज्छेनेति ॥ १२८ ॥
इति गृहस्थधर्मप्रकरणम् ।
अथ लातकधर्मप्रकरणम् ६ एवं श्रौतस्मार्तानि कर्माण्यभिधायेदानी गृहस्थस्य स्नानादारभ्य ब्राह्मणस्यावश्यकर्तव्यानि विधिप्रतिषेधात्मकानि मानससंकल्परूपाणि स्नातकव्रतान्याह
न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः।।
न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा ॥ १२९ ।। ब्राह्मणस्य प्रतिग्रहादयोऽर्थप्राप्त्युपाया दर्शितास्तत्र विशेष उच्यते । स्वाध्यायविरोधिनमर्थमप्रतिषिद्धमपि नेहेत नान्विच्छेत् । न यतस्ततः न यतः कुतश्चिदविदिताचारात् । न विरुद्धप्रसङ्गेन विरुद्धमयाज्ययाजनादि, प्रसङ्गो नृत्यगीतादिः । विरुद्धं च प्रसङ्गश्च विरुद्धप्रसङ्गं तेन । नार्थमीहेतेति संबध्यते । नत्र आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्यस्मिन्नातकप्रकरणे नशब्दः प्रत्येक पर्युदासार्थ एव । किंच अर्थालामेऽपि संतोषी परितृप्तो भवेत् । चकारात्संयतश्च 'संतोषं परमास्थाय सुखार्थी संयतो भवेत्' इति (१।१२) मनुस्मरणात् १२९ कुतस्तर्हि धनमन्विच्छेदित्याह
राजान्तेवासियाज्येभ्यः सीदनिच्छेद्धनं क्षुधा ।
दम्भिहैतुकपाखण्डिबकवृत्तींश्च वर्जयेत् ॥ १३० ॥ क्षुधा सीदन्पीड्यमानः स्नातकः राज्ञो विदितवृत्तान्तात्, अन्तेवासिनो व. क्ष्यमाणलक्षणात्, याज्यात् याजनाहींच्च धनमाददीत । क्षुधा सीदन्नित्यनेन विभामादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न कुतश्चिदर्थमन्विच्छेदिति गम्यते । किंच दम्भिहैतुकादीन्सर्वकार्येषु लौकिकवैदिकशास्त्रीयेषु वर्जयेत् । चकाराद्विकर्मस्थबैडालतिकान्शठान्वर्जयेत् । यथाह मनुः (४३०)-'पाखण्डिनो विकर्मस्थान्बैडालनतिकान्शठान् । हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥' इति । लोकरञ्जनार्थमेव कर्मानुष्ठायी दम्भी। युक्तिबलेन सर्वत्र संशयकारी हैतुकः । त्रैविद्यविरुद्धपरिगृहीताश्रमिणः पाखण्डिनः । बकवद्यस्य वर्तनमिति बकवृत्तिः । यथाह मनु:-'अधोदृष्टिनें कैतिकः स्वार्थसाधनतत्परः । शठो मि१ कुतश्चिद्धनमन्वि. क. २ वृत्तिकशठान क. ग. ३ नैष्कृतिकः ख.
For Private And Personal Use Only