________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थधर्मप्रकरणम् ५ ] . मिताक्षरासहिता।
तत्र त्रीणीज्यादीनि धर्मार्थानि । त्रीणि प्रतिग्रहादीनि वृत्यर्थानि ।-'पण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥' इति (१०७६) मनुस्मरणात् । अत इज्यादीन्यवश्यं कर्तव्यानि न प्रतिग्रहादीनि । 'द्विजातीनामध्ययनमिज्या दानं च ब्राह्मणस्याधिकाः, प्रवचनयाजनप्रतिग्रहाः पूर्वेषु नियमः' इति गौतमस्मरणात् ॥ ११८॥
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ ११९ ॥ क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थ वृत्त्यर्थं च । वैश्यस्य कुसीदकृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्ध्यर्थ द्रव्यप्रयोगः । लाभार्थं क्रयविक्रयौ वाणिज्यम् । शेषं प्रसिद्धम् । -'शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्. पशुकृषी विशः । आजीवनार्थ धर्मस्तु दानमध्ययनं यजिः ॥' इति (१०७९) मनुस्मरणात् ॥ ११९॥
शूद्रस्य द्विजशुश्रूषा तयाज्जीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद्विजातिहितमाचरन् ॥ १२० ॥ शूदस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थ वृत्यर्थं च । तत्र ब्राह्मणशुश्रूषा परमो धर्मः।-'विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते' इति (१०।१२३) मनुस्मरणात् । यदा पुनर्द्विजशुश्रूषया जीवितुं न शक्नोति तदा वणिग्वृत्त्या जीवेत् । नानाविधैर्वा शिल्पैर्द्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिर्द्विजातिशुश्रूषायामयोग्यो न भवति तादृशानि कर्माणि कुर्वमित्यर्थः । तानि च देवलोक्तानि'शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहनपण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि' ॥ १२० ॥
भारतिः शुचिर्भूत्यभर्ता श्राद्धक्रियारतः।
नमस्कारेण मन्त्रेण पञ्चयज्ञान हापयेत् ॥ १२१ ॥ किंच भार्यायामेव न साधारणस्त्रीषु परस्त्रीषु वा रतिरभिगमनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत् । भृत्यादिभर्ता । श्राद्ध क्रियारतः श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकव्रतान्यविरुद्धानि तेषु रतः । नम इत्यनेन मत्रेण पूर्वोक्तान्पञ्चमहायज्ञानहरहर्न हापयेदनुतिष्ठेत् । नमस्कारमत्रं च केचित्-‘देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥' इति वर्णयन्ति । नम इत्यन्ये । तत्र वैश्वदेवं लौकिकेऽग्नौ कर्तव्यं न वैवाहिकेऽनावित्याचार्याः ॥ १२१ ॥ इदानीं साधारणधर्मानाह
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । .
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १२२ ॥ १ क्रियापरः ख.
For Private And Personal Use Only