________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः नयोग्यत्वात् । ततो धर्मार्थकामान्स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासंभवं सेवेतेत्यर्थः । पुरुषार्थत्वात् । यथाह गौतमः-'न पूर्वाह्नमध्याह्वापराह्रानफलान्कुर्यात् धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात्' इति । अत्र यद्यप्येतेषां सामान्येन सेवनमुक्तं तथापि कामार्थयोर्धर्माविरोधेनानुष्ठानं तयोर्धर्ममूलत्वादेवं प्रतिदिनमनुष्ठेयम् ॥ ११५॥
विद्याकर्मवयोबन्धुवित्तैर्मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्धके मानमर्हति ॥ ११६ ॥ विद्या पूर्वोक्ता, कर्म औतं स्मात च, वयः आत्मनोऽतिरिक्तं सप्तत्या बा अर्च, बन्धुः स्वजनसंपत्तिः, वित्तं ग्रामरत्नादिकं एतैर्युक्ताः क्रमेण मान्याः पूजनीयाः। एतैर्विद्याकर्मबन्धुवित्तैः प्रभूतैः प्रवृद्धैः समस्तैयस्तैर्वा युक्तः शूद्रोऽपि वार्धके अशीतेरूवं मानमर्हति । 'शूद्रोऽप्यशीतिको वरः' इति गौतमस्मरणात् ॥ ११६॥
वृद्धभारिनृपस्नातस्वीरोगिवरचक्रिणाम् ।।
पन्था देयो नृपस्तेषां मान्यः सातश्च भूपतेः ॥ ११७॥ वृद्धः पक्वकेशः प्रसिद्धः । भारी भाराकान्तः। नृपो भूपतिःन क्षत्रियमानम् । स्नातो विद्यावतोभयनातकः । स्त्री प्रसिद्धा । रोगी व्याधितः । वरो विवाहोग्रतः । चक्री शाकटिकः । चकारान्मत्तोन्मत्तादीनां ग्रहणम् ।-'बालवृद्धमत्तोन्मत्तोपहतदेहभाराकान्तस्त्रीस्रातकप्रवजितेभ्यः' इति शङ्खमणात्। एतेभ्यः पन्था देयः । एतेष्वभिमुखायातेषु स्वयं पथोऽपक्रामेत् । वृद्धादीनां राज्ञा सह पथि समवाये राजा मान्य इति तस्मै पन्था देयः । भूपतेरपि स्नातको मान्यः । स्नातकग्रहणं स्नातकमात्रप्राप्त्यर्थ न ब्राह्मणाभिप्रायेण । तस्य सदैव गुरुत्वात् । यथाह शङ्ख:-'अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्येके । तच्चानिष्टं गुरुज्येष्ठश्च ब्राह्मणो राजानमतिशेते तस्मै पन्था' इति । वृद्धादीनां पथि परस्परसमवाये वृद्धतराद्यपेक्षया विद्यादिभिर्वा विशेषो द्रष्टव्यः ॥ ११७ ॥
इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहोधिको विप्रे याजनाध्यापने तथा ॥ ११८ ॥ वैश्यस्य क्षत्रियस्य च चकारागाह्मणस्य द्विजानुलोमानां च यागाध्ययनदानानि साधारणानि कर्माणि । ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । तथेति स्मृत्यन्तरोक्तवृत्युपसंग्रहः । यथाह गौतमः-'कृषिवाणिज्ये वा स्वयं कृते कुसीदं च' इति । अध्यापनं तु क्षत्रियवैश्ययोर्बाह्मणप्रेरितयोर्भवति न स्वेच्छया। -'आपत्काले ब्राह्मणस्याब्राह्मणाविद्योपयोगोऽनुगमनं शुश्रूषा, समाप्ते ब्राह्मणो गुरुः' इति गौतमस्मरणात् । एतान्यनापदि ब्राह्मणस्य पद कर्माणि । १ बन्धुर्बहुस्वजन ग. २ पक्कशरीरः ख. ३ नृपो राजा न क. ४ वाभिमुख्यागतेषु ख.
For Private And Personal Use Only