________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थधर्मप्रकरणम् ५] मिताक्षरासहिता। संपूज्या वन्दितव्याः । अर्घशब्दो मधुपर्क लक्षयति । ऋत्विजश्वोक्तलक्षणाः संवत्सरादयंगपि प्रतियज्ञं मधुपर्केण संपूज्याः ॥ ११ ॥ ___ अध्वनीनोऽतिथिज्ञेयः श्रोत्रियो वेदपारगः।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥१११॥ अध्वनि वर्तमानोऽतिथिर्वेदितव्यः । श्रोत्रियवेदपारगावध्वनि वर्तमानौ ब्रसलोकमभीप्सतो गृहस्थस्य मान्यावतिथी वेदितव्यौ । यदप्यध्ययनमात्रेण श्रोत्रियस्तथापि श्रुताध्ययनसंपन्नोऽत्र श्रोत्रियोऽभिधीयते । एकशाखाध्यापनक्षमो वेदपारगः ॥ १११ ॥
परपाकरुचिर्न स्यादनिन्यामत्रणाहते।
वाक्पाणिपादचापल्यं वर्जयेचातिभोजनम् ॥ ११२ ॥ परपाके रुचिर्यस्यासौ तथोक्तः परपाकरुचिः । नैव परपाकरुचिः स्यात् । अनिन्ग्रेनामन्त्रणं विना । 'अनिन्धेनामनितो नापकामेत्' इति स्मरणात् । वाक्पाणिपादचापल्यं वाक्च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं वर्जयेत् । वाक्चापल्यमसभ्यानृतादिभाषणम् । पाणिचापल्यं वैल्गनास्फोटनादि । पादचापल्यं लङ्घनोत्प्लवनादि । चकारान्नेत्रादिचापल्यं च वर्जयेत् । --'न शिश्नोदरपाणिपादचक्षुर्वाक्चापलानि कुर्यात्' इति गौतमस्मरणात् । तथा अतिभोजनं च वर्जयेत् । अनारोग्यहेतुत्वात् ॥ ११२ ॥ - अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत् ।
अहःशेष समासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ ११३॥ पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं यावदनुव्रजेत् । ततो भोजनानन्तरमहःशेषं शिष्टैरितिहासपुराणादिवेदिभिः, इष्टैः काव्यकथाप्रपञ्चचतुरैः, बन्धुभिश्चानुकूलालापकुशलैः सहासीत ॥ ११३ ॥
उपास्य पश्चिमां संध्यां हुखाग्नीस्तानुपास्य च। .
भृत्यैः परिवृतो भुक्ता नातितृप्याथ संविशेत् ॥ ११४ ॥ ततः पूर्वोक्तेन विधिना पश्चिमां संध्यामुपास्य आहेवनीयादीनग्नीनग्निं वा हुत्वा तानुपास्योपस्थाय भृत्यैः पूर्वोक्तैः स्ववासिन्यादिभिः परिवृतो नातितृप्य भुक्त्वा चकारादायव्ययादिगृहचिन्तां निर्वानन्तरं संविशेत्स्वप्यात् ॥ ११४ ॥
ब्राह्म मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् ।
धर्मार्थकामान्खे काले यथाशक्ति न हापयेत् ॥ ११५ ॥ — ततो ब्राह्म मुहूर्ते उत्थाय पश्चिमेऽर्धप्रहरे प्रबुध्यात्मनो हितं कृतं करिष्यमाणं च वेदार्थसंशयांश्च चिन्तयेत् । तदानीं चित्तस्याव्याकुलत्वेन तत्त्वप्रतिभा
.. १ अध्ययनक्षमो ख. २ कल्याण ख. ३ अग्निमग्नीन्वा ख. ४ प्रतिभासन ख.
For Private And Personal Use Only