________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
प्रत्याख्येय एव । यद्यप्यदनीयं किमपि नास्ति तथापि वाग्भूतृणोदकैरपि सत्कारं कुर्यात् । यथाह मनुः (४/१०१ ) - 'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति ॥ १०७ ॥
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥ १०८ ॥
भिक्षवे सामान्येन भिक्षा दातव्यां । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य भिक्षादानमपूर्वमित्यनेन विधिना भिक्षा दातव्या । भिक्षा च ग्राससंमिता । ग्रासश्च मयूराण्डपरिमाणः । - ' ग्रासमात्रा भवेद्भिक्षा पुष्कलं तच्चतुगुणम् । हंतस्तु तैश्चतुर्भिः स्यादग्रं तत्रिगुणं भवेत् ॥' इति शातातपस्मरणात् । भोजनकाले चागतान्सखिसंबन्धिबान्धवान्भोजयेत् । सखायो मित्राणि । संबन्धिनो येभ्यः कन्या गृहीता दत्ता वा । मातृपितृसंबन्धिनो बान्धवाः ॥ १०८॥
I
महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियाऽन्वासनं स्वादु भोजनं सूनृतं वचः ॥ १०९ ॥
महान्तमुक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् भवदर्थमयमस्माभिः परिकल्पित इति तत्प्रीत्यर्थे नतु दानाय व्यापादनाय वा । यथा सर्वमेतद्भवदीयमिति । प्रतिश्रोत्रियमुक्षासंभवात् । 'अस्वर्ग्य लोकविद्विष्टं धर्म्यमप्याचरेन्नतु' इति निषेधाच्च । तस्मात्सत्क्रिया ह्येव कर्तव्या । सत्क्रिया स्वागतवचनासनपाद्यार्थ्याचमनादिदानम् । तस्मिन्नुपविष्टे पश्चादुपवेशनमन्वासनम् । स्वादु भोजनं मिष्टमशनम् । सूनृतं वचः धन्या वयमद्य भवदागमनादित्येवमादि । अश्रोत्रिये पुनः 'अश्रोत्रियस्योदकासने' इति गोतमोक्तं वेदितव्यम् ॥ १०९ ॥
प्रतिसंवत्सरं वर्ध्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाद्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥ ११० ॥
स्वातको विद्यास्नातक; व्रतस्नातकः विद्याव्रतस्नातकः इति । ( समाप्य वेदमस - माध्य व्रतं यः समावर्तते स विद्यास्नातकः । समाप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः 1 ) आचार्य उक्तलक्षणः । पार्थिवो वक्ष्यमाणलक्षणः । प्रियो मित्रम् । विवाह्यो जामाता । चकाराच्वशुरपितृव्यमातुलादीनां ग्रहणम् । 'ऋत्विजो वृत्वा मधुपर्कमाहरेस्नातकायोपस्थिताय राज्ञे चाचार्याय च श्वशुरपितृव्यमातुलानां च' इत्याश्वलायनस्मरणात् । एते स्नातकादयः प्रतिसंवत्सरं गृहमागता अर्ध्याः मधुपर्केण
१ यथाहेत्यादि मनुवचनं क. ग. नैवास्ति २ संबद्धा बान्धवाः क. ३ याद्येव कर्त्तव्यं ग. ५ धनुश्चिह्नगो भागः क. ग. नास्ति.
For Private And Personal Use Only