________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थधर्मप्रकरणम् ५ ] मिताक्षरासहिता ।
३३
मीणां च शनकैर्निक्षिपेद्भुवि ॥' इति । एतच्च सायंप्रातः कर्तव्यम् । 'अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्' इत्याश्वलायनस्मरणात् । इह केचिद्वैश्वदेवाख्यस्य कर्मणः पुरुषार्थत्वमन्नसंस्कारकर्मत्वं चेच्छन्ति - 'अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयादित्यन्नसंस्कारकर्मकता प्रतीयते । 'अथातः पञ्च महायज्ञाः ' इत्युपक्रम्य 'तानेतान्यज्ञानहरहः कुर्वीते 'ति नित्यत्वाभिधानात्पुरुषार्थत्वं चावगम्यते' इति । तदयुक्तम् । पुरुषार्थत्वेन संस्कार कर्मत्वानुपपत्तेः । तथाहि । द्रव्यसंस्कारकर्मस्वपक्षेनार्थता वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात्पुरुषार्थत्वमेव युक्तम् । - 'महायज्ञैश्व यज्ञैश्च ब्राह्मीयं क्रियते तनुः' इति । तथा- - 'वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्मा अन्नं यथाशक्ति प्रदद्यान्न बालें हरेत् ॥' इति ( ३|१०८ ) मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकमावर्तनीयम् । तस्मादथ सायंप्रातरित्यादिनोत्पत्ति प्रयोगौ दर्शितौ, ' तानेतान्यज्ञानहरहः कुर्वीते' त्यधिकारविधिरिति सर्वमनवद्यम् ॥ १०३ ॥
अनं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ।
स्वाध्यायं सततं कुर्यान्न पचेदन्नमात्मने ॥ १०४ ॥
प्रत्यहमन्नं पितृभ्यो मनुष्येभ्यश्च यथाशक्ति देयम् । अन्नाभावे कन्दमूलफलादि । तस्याप्यभावे जलं देयं अपिशब्दात् । स्वाध्यायं सततं कुर्यादविस्मरणाथैम् । न पचेदन्नमात्मार्थम् | अन्नग्रहणं सकलादनीयद्रव्यप्रदर्शनार्थम् । कथं तर्हि । देवताद्युद्देशेनैव ॥ १०४ ॥
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ॥ १०५ ॥ परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीनतिथिभृं त्यांश्च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् । 'प्राणानिहोत्र विधिनाभीयादन्नमनापदि । मतं विपक्कं विहितं भक्षणं प्रीतिपूर्वकम् ॥' ॥ १०५ ॥ आपोशनेनोपरिष्टादधस्तादश्नता तथा ।
अनग्नममृतं चैव कार्यमन्नं द्विजन्मना ॥ १०६ ॥
भुञ्जानेन द्विजन्मना उपरिष्टादधस्ताच्चापोशनाख्येन कर्मणान्नमनन्नममृतं च कार्यम् । द्विजन्मग्रहणमुपनयनप्रभृति सर्वाश्रमसाधारणम् ॥ १०६ ॥ अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १०७ ॥ वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनामतिथित्वेन युगपत्प्राप्तानां ब्राह्मणाद्यानुपूर्येण यथाशक्ति देयम् । सायंकालेऽपि यद्यतिथिरागच्छति तदासावप्रणोद्यो
१ एतेन काम्यत्वमपि प्रतिपादितं भवति. २ चान्वहं कुर्यात् ख. ३ प्राणेत्याद्यधिकं क. पुस्तके.
For Private And Personal Use Only