________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
पासनानिं वा । तदनन्तरं सूर्यदैवत्यान् 'उदुत्यं जातवेदसम्' इत्यादीन्मन्त्रान्जपेत् । समाहितोऽविक्षिप्तचित्तः । तदनन्तरं वेदार्थान्निरुक्तव्याकरणादींश्च श्रवणेनाधिगच्छेज्जानीयात् । चकारादधीतं चाभ्यसेत् । विविधानि च शास्त्राणि मीमांसाप्रभृतीनि धर्मार्थांरोग्यप्रतिपादकान्यधिगच्छेत् ॥ ९९ ॥
उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान्पिचैव तर्पयेदर्चयेत्तथा ॥ १०० ॥
तदनन्तरमीश्वरमभिषेकादिगुणयुक्तमन्यं वा श्रीमन्तमकुत्सितं योगक्षेमार्थसिद्धये । अलब्धलाभो योगः लब्धपरिपालनं क्षेमे तदर्थमुपेयादुपासीत । उपेयादित्यनेन सेवां प्रतिषेधति । वेतनग्रहणेनाज्ञाकरणं सेवा । तस्याः श्ववृत्तित्वेन निषेधात्, ('सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत्' इति मनुस्मरणात् ) । ततो मध्याह्ने शास्त्रोक्तविधिना नद्यादिषु स्नात्वा देवान्स्वगृह्येोक्तान् पितॄंश्च चकारादृषींश्च देवादितीर्थेन तर्पयेत् । तदनन्तरं गन्धपुष्पाक्षतैः हरिहर हिरण्यगर्भप्रभृतीनामन्यतमं यथावासनमृग्यजुः साममन्त्रैस्तत्प्रकाशकैः स्वनामभिर्वा चतुर्थ्यन्तैर्नमस्कारयुक्तैराराधयेद्यथोक्तविधिना ॥ १०० ॥
वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १०१ ॥
तदनन्तरं वेदाथर्वेतिहासपुराणानि समस्तानि व्यस्तानि वा । आध्यात्मिकीं च विद्यां जपयज्ञसिद्ध्यर्थं यथोक्तेन विधिना यथाशक्ति जपेत् ॥ १०१ ॥ • बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । भूतपित्रमरत्रह्ममनुष्याणां महामखाः ॥ १०२ ॥
बलिकर्म भूतयज्ञः । स्वधा पितृयज्ञः । होमो देवयज्ञः । स्वाध्यायो ब्रह्मयज्ञः । अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः नित्यत्वात् । यत्पुनरेषां फलश्रवणं तदेषां पावनत्वख्यापनार्थे न काम्यत्वप्रतिपादनाय ॥ १०२ ॥
देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षिपेत् ॥
१०३ ॥ स्वगृह्येोक्तविधिना वैश्वदेवैहोमं कृत्वा तदवशिष्टेनान्नेन भूतेभ्यो बलिं हरेत् । अन्नग्रहणमपक्वन्युदासार्थम् । तदनन्तरं यथाशक्ति भूमावन्नं श्वचाण्डालवायसेभ्यो निक्षिपेत् । चशब्दात्कृमिपापरोगिपतितेभ्यः । यथाह मनुः ( ३।९२ ) - 'शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृ
· १ करणादिश्रवणेनाधि. ख. २ क्षेमस्तदर्थं ग. ३ सेवेत्याद्यधिकं क. ग. पुस्तकयोः ४ थर्व पुराणेतिहासादीनि कृत्वा क ५ वैश्वदेवं कृत्वा क•
For Private And Personal Use Only