________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
याज्ञवल्क्यस्मृतिः।
[आचाराध्यायः
वचनात् । यदा युग्मायामपि रात्रौ शोणिताधिक्यं तदा स्येव भवति पुरुषाकृतिः । अयुग्मायामपि शुक्राधिक्ये पुमानेव भवति रुयाकृतिः । कालस्य निमितत्वात् । शुक्रशोणितयोश्चोपादानकारणत्वेन प्राबल्यात् । तस्मारक्षामा कर्तव्या। मघामूलनक्षत्र वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात्पुंनक्षत्रशुभयोगलनादिसंपत्तौ सकृदेकस्यां रात्रौ न द्विस्त्रिा । ततो लक्षणैर्युक्तं पुत्रं जनयति । पुमानप्रतिहतपुंस्त्वः ॥ ८ ॥ एवमृतौ नियममुक्त्वा इदानीमनृतौ नियममाह
यथाकामी भवेद्वापि स्त्रीणां वरमनुसरन् ।
खदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ ८१ ॥ भा-या इच्छानतिक्रमेण प्रवृत्तिरस्यास्तीति यथाकामी भवेत् । वाशब्दो नियमान्तरपरिग्रहार्थो न पूर्व नियमनिवृत्यर्थः । स्त्रीणां वरमिन्द्रदत्तमनुस्मरन 'भवतीनां कामविहन्ता पातकी स्यात्' इति । यथा 'ता अब्रुवन् वरं वृणीमहा ऋत्वियाप्रजां विन्दामहै काममाविजनितोः संभवामेति तस्मादृत्वियाः स्त्रियः प्रजा विन्दन्ते काममाविजनतोः संभवन्ति वारे वृत५ह्यासाम्' इति । अपिच स्वदारेष्वेव निरतः नितरां रतस्तन्मनस्को भवेदित्यनुषज्यते । एवकारेण ख्यन्तरगमनं निवर्तयति, प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजनमाह-स्त्रियो रक्ष्या यतः स्मृता इति । यस्मास्त्रियो रक्ष्याः स्मृता उक्ताः 'कर्तव्याश्च सुरक्षिताः' इति । तत्र सुरक्षितत्वं यथाकामित्वेन स्यन्तरागमनेन च भवतीति, अत्राह 'तस्मिन्युग्मासु संविशे'दिति । किमयं विधिनियमः परिसंख्या वा । उच्यते । न तावद्विधिः, प्राप्तार्थत्वात् । नापि परिसंख्या, दोषत्रयसमासक्तः । अतो नियम प्रतिपेदिरे न्यायविदः । कः पुनरेषां भेदः । अत्यन्ताप्राप्तप्रापणं विधिः। यथा 'अग्निहोत्रं जुहुयात्' 'अष्टकाः कर्तव्याः' इति । पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः । यथा 'समे देशे यजेत' 'दर्शपूर्णमासाभ्यां यजेत' इति यागः कर्तव्यतया विहितः। सच देशमन्तरेण कर्तुमशक्य इत्यर्थाद्देशः प्राप्तः । सच द्विविधः समो विषमश्चेति । यदा यजमानः समे यियक्षते तदा समे यजेतेति वचनमुदास्ते, स्वार्थस्य प्राप्तत्वात् । यदा तु विषमे देशे यियक्षते तदा समे यजेतेति स्वार्थ विधत्ते, स्वार्थस्य तदानीमप्राप्तत्वात् । विषमदेशनिवृत्तिस्त्वार्थिकी । चोदितदेशेनैव यागनिष्पत्तेरचोदितदेशोपादानेन यथाशास्त्रं यागो नानुष्ठितः स्यादिति । तथा 'प्रामुखोऽन्नानि भुञ्जीत' इति । इदमपि सातमुदाहरणं पूर्वेण व्याख्यातम् ॥ एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्यर्थमेकन पुनर्वचनं परिसंख्या। तद्यथा
१ कालस्यानियतत्वात् क. २ वृणीमहै ख. ३ वरं वृतं तासां ख. ४ उक्ताः पूर्व ७८ श्लोके. ५ विध्यादयश्च-'विघिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र वा प्राप्तौ परिसंख्या निगद्यते' इति. ६ दोषत्रयासक्तेः क. ७ प्राप्तार्थत्वात् क. ८ स्त्वसिद्धा कः
For Private And Personal Use Only