________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः अप्रकाशितान्मनोव्यभिचारात्पुरुषान्तरसंभोगसंकल्पाद्यदपुण्यं तस्य ऋतौ रजो. दर्शने शुद्धिः । शूद्रकृते तु गर्भे त्यागः। (मनुः ९११५५) 'ब्राह्मणक्षत्रियविशा भार्याः शूद्रेण संगताः । अप्रजाता विशुद्ध्यन्ति प्रायश्चित्तेन नेतराः ॥' इति स्मरणात् । तथा गर्भवधे भर्तृवधे महापातके च ब्रह्महत्यादौ आदिग्रहणाच्छिप्यादिगमने च त्यागः । 'चतस्त्रस्तु परित्याज्याः शिष्यगा गुरुगाच या। पतिती च विशेषेण जुङ्गितोपगता च या ॥' इति व्यासमरणात् । जुङ्गितः प्रतिलोमजश्चर्मकारादिः । त्यागश्चोपभोगधर्मकार्ययोः नतु निष्कासनं गृहात्तस्याः । 'निरुध्यादेकवेश्मनि' इति नियमात् ॥ ७२ ॥ द्वितीयपरिणयने हेतूनाह
सुरापी व्याधिता धूर्ता बन्ध्यार्थभ्यप्रियंवदा ।
स्त्रीप्रसूश्वाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ ७३ ॥ सुरां पिबतीति सुरापी शूदापि । 'पतत्यधं शरीरस्य यस्य भार्या सुरां पिबेत्' इति सामान्येन प्रतिषेधात् । व्याधिता दीर्घरोगप्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थनी अर्थनाशिनी । अप्रियंवदा निठुरभाषिणी । स्त्रीप्रसूः स्त्रीजननी । पुरुषद्वेषिणी सर्वत्राहितकारणी। अधिवेत्तव्येति प्रत्येकमभिसंब. ध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ ७३ ॥
अधिविना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥ ७४ ॥ विंच । सा अधिविना पूर्ववदेव दानमानसत्कारैर्भर्वव्या । अन्यथाऽभरणे महदपुण्यं वक्ष्यमाणो दण्डश्च । नच भरणे सति केवलमपुण्यपरिहारः। यतः यत्र दंपत्योरानुकूल्यं चित्तैक्यं तत्र धर्मार्थकामानां प्रतिदिनमभिवृद्धिश्च ॥ ७४ ॥ स्त्रियं प्रत्याह
मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।
सेह कीर्तिमवाप्नोति मोदते चोमया सह ॥ ७५॥ भर्तरि जीवति मृते वा या चापल्यादन्यं पुरुषं नोपैगच्छति सेह लोके विपुलां कीर्तिमवानोति । उमया च संह क्रीडति पुण्यप्रभावात् ॥ ७५ ॥ अधिवेदनकारणाभावे अधिवेत्तारं प्रत्याह
आज्ञासंपादिनी दक्षां वीरसं प्रियवादिनीम् । त्यजन्दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः॥७६॥ आज्ञासंपादिनीमादेशकारिणीम्, दक्षां शीघ्रकारिणीम्, वीरसूं पुत्रवतीम्, प्रियवादिनी मधुरभाषिणी यस्त्यजति अधिविन्दति स राज्ञा स्वधनस्य तृतीयांशं दाप्यः । निर्धनस्तु भरणं मासाच्छादनादि दाप्यः ॥ ७६ ॥ १ सर्वत्र संबध्यते क. २ नैवोपगच्छति क. ३ आदेशसंपादिनी ख.
For Private And Personal Use Only