SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवाहप्रकरणम् ३] मिताक्षरासहिता । १९ च । तत्र क्षता संस्कारात्प्रागेव पुरुषसंबन्धदूषिता । भक्षता पुनः संस्कारदूषिता । या पुनः कौमारे पति त्यक्त्वा कामतः सवर्णमाश्रयति सा स्वैरिणीति ॥ ६७ ॥ एवं सर्वप्रकारेणान्य पूर्वापर्युदासे प्राप्ते विशेषमाह - आपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ ६८ ॥ आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् । अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ ६९ ॥ अपुत्रा लब्धपुत्रां पित्रादिभिः पुत्रार्थमनुज्ञातो देवरो भर्तुः कनीयान् भ्राता सपिण्डो वा उक्तलक्षणः सगोत्रो वा । एतेषां पूर्वस्याभावे परः परः घृताभ्यक्तसर्वाङ्गः ऋतावेवं वक्ष्यमाणलक्षणे इयागच्छेत् आगर्भोत्पत्तेः । ऊर्ध्वं पुनर्गच्छन् अन्येन वा प्रकारेण तदा पतितो भवति । अनेन विधिनोत्पन्नः पूर्वपरिणेतुः क्षेत्रजः पुत्रो भवेत् । एतच्च वाग्दत्ताविषयमित्याचार्याः । 'यस्या म्रियेत कन्याया वाचा सध्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ ' इति (९।६९ ) मनुस्मरणात् ॥ ६८ ॥ ६९ ॥ व्यभिचारिणीं प्रत्याह हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ ७० ॥ या व्यभिचरति तां हृताधिकारां भृत्यभरणाद्यधिकाररहिताम् । मलिनां भक्षनाभ्यञ्जनशुभ्रवस्त्राभरणशून्याम् । पिण्डमात्रोपजीविनीं प्राणयात्रामात्रभोज - नाम् । धिक्कारादिभिः परिभूतां भूतलशायिनीं स्ववेश्मन्येव वासयेत् । वैराग्य जननार्थं न पुनः शुद्ध्यर्थम् । 'यत्पुंसः परदारेषु तच्चैनां चारयेद्रतम्' इति पृथकप्रायश्चित्तोपदेशात् ॥ ७० ॥ तस्या अल्पप्रायश्चित्तार्थमर्थवादमाह - सोमः शौचं ददावासां गन्धर्वश्व शुभां गिरम् । पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥ ७१ ॥ परिणयनात्पूर्वं सोमगन्धर्ववह्नयः श्रीर्भुक्त्वा यथाक्रमं तासां शौचमधुरवचनसर्वमेध्यत्वानि दत्तवन्तः । तस्मात्स्त्रियः सर्वत्र स्पर्शालिङ्गनादिषु मेध्याः शुद्धाः स्मृताः ॥ ७१ ॥ नच तस्यास्तर्हि दोषो नास्तीत्याशङ्कनीयमित्याह - व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । गर्भभर्तवधादौ च तथा महति पातके ॥ ७२ ॥ १ ददौ स्त्रीणां क २ स्त्रियो भुक्त्वा क. या. ५ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy