________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१८
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
सवर्णासु विवाहे स्वगृह्येोक्तविधिना पाणिरेव ग्राह्यः । क्षत्रियकन्या तु शरं गृह्णीयात् । वैश्या प्रतोदमादद्यात् । उत्कृष्टवेदने शूद्रा पुनर्वसनस्य दशाम् । य• थाह मनुः ( ३४४ ) - ' वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने' इति ॥ ६२ ॥ . कन्यादातृक्रममाह
Acharya Shri Kailassagarsuri Gyanmandir
पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ ६३॥ अप्रयच्छन्समा मोति भ्रूणहत्यामृतावृतौ । । गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरम् ॥ ६४॥
एतेषां पित्रादीनां पूर्वस्य पूर्वस्याभावे परः परः कन्याप्रदः प्रकृतिस्थश्चेत् यधुन्मादादिदोषवान्न भवति । अतो यस्याधिकारः सोऽप्रयच्छन् भ्रूणहत्यामृतावृतावाप्नोति । एतच्चोत्तलक्षणवरसंभवे वेदितव्यम् । यदा पुनर्दातृणामभावस्तदा क न्यैव गम्यं गमनार्हमुक्तलक्षणं वरं स्वयमेव वरयेत् ॥ ६३ ॥ ६४ ॥
कन्याहरणे दण्डः ---
सकृत्प्रदीयते कन्या हरंस्तां चौरदण्डभाक् ।
सकृदेव कन्या प्रदीयत इति शास्त्रनियमः । अतस्तां दत्त्वा अपहरन् कन्यां चौरवद्दण्ड्यः ॥
एवं सर्वत्र प्रतिषेधे प्रासेऽपवादमाह -
दत्तामपि हरेत्पूर्वाच्छ्रेयांचेवर आव्रजेत् ।। ६५ ।।
यदि पूर्वस्माद्वराष्छ्रेयान्विद्याभिजनाद्यतिशययुक्तो वर भागच्छति पूर्वस्य च पातकयोगो दुर्वृत्तत्वं वा तदा दत्तामपि हरेत् । एतच्च सप्तमपदात्प्राद्रष्टव्यम् ॥ ६५ ॥
अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तुं त्यजन्दाण्ड्यो दूषयंस्तु मृषा शतम् || ६६ ॥
यः पुनश्चक्षुर्ग्राह्यं दोषमनाख्याय कन्यां प्रयच्छति असावुत्तमसाहसं दण्ड्यः । उत्तमसाहसं च वेक्ष्यते । अदुष्टां तु प्रतिगृह्य त्यजन्नुत्तमसाहसमेव दण्ड्यः । यः पुनर्विवाहात्प्रागेव द्वेषादिना असद्भिर्दोषैर्दीर्घरोगादिभिः कन्यां दूषयति स पणानां वक्ष्यमाणलक्षणानां शतं दण्ड्यः ॥ ६६ ॥
अनन्य पूर्विकामित्यत्रानन्यपूर्वी परिणेयोक्ता तत्रान्य पूर्वा कीदृशीत्याह
अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ ६७ ॥ अन्यपूर्वा द्विविधा पुनर्भूः स्वैरिणी चेति । पुनर्भूरपि द्विविधा क्षता चाक्षता १ च त्यजन् क. २ अग्रे व्यवहाराध्याये.
For Private And Personal Use Only