________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
शाब्दिकं प्रायश्चित्तमुपदिश्यते तदा प्राणा विपद्येरनिति ततोऽन्यवयस्के तत्प्रायश्चित्तं कल्प्यम् । अतएव स्मृत्यन्तरे 'क्वचिदधैं क्वचित्पादः' इति वृद्धादिषु प्रायश्चित्तस्य हासोऽभिहितः तच्च प्राक्प्रपञ्चितम् । तथा धनदानतपश्चरणादिशक्यपेक्षया च नहि निर्धनस्य पात्रे धनं वा पर्याप्तमित्याद्युपपद्यते । तथोद्रिक्तपि. त्तादेर्वा पराकादिकं नापि स्त्रीशूद्रादेजपादिकं । अतएव 'गजादीनामशक्नुवन् । दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये' इत्युक्तम् । तथा 'प्रायश्चित्ताधमर्हन्ति स्त्रियो रोगिण एव च' इति तपस्यशक्तस्य स्मृत्यन्तरे प्रायश्चित्तस्य हासोऽभिहितः । तथा पापं च महापातकादिरूपेण सप्रत्ययाप्रत्ययसकृदभ्यासादिरूपेण चावेक्ष्य यत्नतः सकलधर्मशास्त्रपर्यालोचनया प्रायश्चित्तं कल्पनीयम् । तत्राकामतो यद्विहितं तदेव कामकृते द्विगुणं कामतोऽभ्यासे चतुर्गुणमित्येवं स्मृत्यन्तरानुसारेण कल्पनीयम् । तथा-'महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षो मासमासीत' इत्युक्तं, तत्र महापापोपपापयोस्तुल्यप्रायश्चित्तस्यायुक्तत्वान्महापापापेक्षयोपपातके मासिकव्रतस्य हासः कल्पनीयः । यत्र च हसितजृम्भिताकन्दितास्फालनादिनाकस्मात्कुर्यात्तथा । 'नोदन्वतोऽम्भसि नायान्न च श्मश्वादि कर्तयेत् । अन्तर्वत्याः पतिः कुर्वन्नप्रजा भवति ध्रुवम् ॥' इत्यादौ प्रायश्चित्तं नोपदिष्टं तत्रापि देशाद्यपेक्षया प्रायश्चित्तं कल्प्यम् ॥ ननु किंचिदपि निमित्त जातमनुक्तनिष्कृतिकमुपलभ्यते-'प्राणायामशतं कार्य सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥' इत्यनुक्तनिप्कृतिप्वपि प्रायश्चित्तस्य वक्ष्य. माणत्वात् ॥ गौतमेनाप्येतान्येवानादेशे विकल्पेन क्रियेरन्नित्येकाहादयः प्रतिपादिताः । उच्यते । सत्यमस्त्येव सामान्यतः प्रायश्चित्तोपदेशस्तथापि सर्वत्र देशकालादीनामपेक्षितत्वादस्त्येव कल्पनावसरः । नच हसितादिषु सर्वत्र प्रा. णायामशतं युक्तम् । निमित्तस्य लघुत्वात् । अतः पापापेक्षया हासः कल्पनीयः प्रायश्चित्तान्तरं वा । ननु कथं पापस्य लघुत्वं येन प्रायश्चित्तस्य ह्रासकल्पना स्यात् । नच प्रायश्चित्ताल्पत्वादिति वाच्यम् । अनुक्तनिष्कृतित्वादेव । सत्यम् । किंतु अर्थवादसंकीर्तनाद्बुद्धिपूर्वाबुद्धिपूर्वानुबन्धाद्यपेक्षया च सुबोध एव दोषस्य गुरुलघुभावः। तथा दण्डहासवृद्ध्यपेक्षया च प्रायश्चित्तगुरुलघुभावः । यथा ब्राह्मणावगोरणादौ स. जातीयविषये प्राजापत्यादिकमुक्तम्, तत्र यदाचानुलोम्येन प्रातिलोम्येन वावगोरणादि क्रियते, यदा वा मूर्धावसिक्तादिभिस्तदा दण्डस्य तारतम्यदर्शनादेव दोषाल्पत्वमहत्त्वावगमात्प्रायश्चित्तस्यापि गुरुलधुभावः कल्पनीयः । दर्शितश्च दण्डस्य गुरुलघुभावः 'प्रातिलोम्यापवादेषु द्विगुणस्त्रिगुणो दमः' इत्यादिना ॥ २९३ ॥ ___ एवं महापातकादिभिः पतितस्य प्रायश्चित्तमुक्तं, यस्त्वौद्धत्यादेतन्न चिकीर्षति तस्य किं कार्यमित्यत आह
दासीकुम्भं बहिर्गामानिनयेरन्स्ववान्धवाः ।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ २९४ ॥ १ जृम्भितास्फोटनानि ङ, २ दर्शनाघोषाल्पत्व ख.
For Private And Personal Use Only