________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । 'अध्यस्य शयनं यानमासनं पादुके तथा । द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥ क्षत्रियस्तु रणे पृष्ठं दत्त्वा प्राणपरायणः । संवत्सरं व्रतं कुर्याच्छित्वा वृक्षं फलप्रदम् ॥ द्वौ विप्रो ब्राह्मणाग्नी वा दम्पती गोद्विजोत्तमौ । अन्तरेण यदा गच्छेत्कृच्छ्रे सान्तपनं चरेत् ॥ होमकाले तथा दोहे स्वाध्याये दारसंग्रहे । अन्तरेण यदा गच्छेटिजश्चान्द्रायणं चरेत् ॥' इति । दोहे सान्नाय्याद्यङ्गभूते । एतच्चाभ्यासविषयम् । सच्छिद्रादित्याद्यरिष्टदर्शनादौ शङ्ख आह-'दुःस्वमारिष्टदर्शनादौ घृतं सुवर्णं च दद्यात्' इति ॥ __ क्वचिद्देशविशेषगमनेऽपि देवल आह-सिन्धुसौवीरसौराष्ट्रांस्तथा प्रत्यन्तवासिनः । अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारमर्हति ॥' एतच तीर्थयात्राव्यतिरेकेण द्रष्टव्यम् ॥ स्वपुरीषदर्शनादौ यम आह-'प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् । दृष्ट्वा सूर्य निरीक्षेत गामग्निं ब्राह्मणं तथा ॥' इति । शङ्खोऽप्याह-पादप्रतपनं कृत्वा कृत्वा वह्निमधस्तथा । कुशैः प्रमृज्य पादौ तु दिनमेकं व्रती भवेत् ॥' इति ॥ क्षत्रियाद्युपसंग्रहणे हारीत आह-'क्षत्रियाभिवादनेऽहोरात्रमुपवसेत्, वैश्याभिवादने द्विरात्रम्, शूद्रस्याभिवादने त्रिरात्रमुपवासः' इति ॥ तथा 'शय्यारूढे पादुकोपानहारोपितपादोच्छिष्टान्धकारस्थश्राद्धकृजपदेवपूजानिरताभिवादने त्रिरात्रमुपवासः स्यादन्यत्र निमत्रितेनान्यत्र भोजनेऽपि त्रिरात्रम्' इति ॥
समित्पुष्पादिहस्तस्याभिवादनेऽप्येतदेव-'समित्पुष्पकुशाज्याम्बुमृदनाक्षतपाणिकम् । जपं होमं च कुर्वाणं नाभिवादेत वै द्विजम् ॥' इत्यापस्तम्बीये जपादिभिः समभिव्याहारात् । अभिवादकस्यापीदमेव प्रायश्चित्तम्-'नोदकुम्भहस्तोऽभिवादयेत् न भैक्षं चरन पुष्पाज्यादिहस्तो नाशुचिर्न जपन्न देवपितृकार्य कुर्वन्न शयानः' इति तस्यापि शङ्खन प्रतिषेधात् । एवमन्यान्यपि वचांसि स्मृत्यन्तरतोऽन्वेष्याणि ग्रन्थगौरवभयादत्र न लिख्यन्ते ॥ २९२ ॥
इति प्रकीर्णकप्रायश्चित्तप्रकरणम् । निमित्तानामानन्त्यात्प्रतिव्यक्तिप्रायश्चित्तस्य वक्तुमशक्यत्वात्सामान्येनोपदिष्टानुपदिष्टविषये प्रायश्चित्तविशेषज्ञानार्थमिदमाह
देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः।
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः ॥ २९३ ॥ यदुक्तं प्रायश्चित्तजातं वक्ष्यमाणं वा तद्देशादिकमवेक्ष्य यथा कर्तुः प्राणविपत्तिर्न भवति तथा विषयविशेषे कल्पनीयम् । इतरथा प्रधाननिवृत्तिप्रसङ्गात् । तथाच वक्ष्यति-'वायुभक्षो दिवा तिष्ठन्त्रात्रिं नीत्वाप्सु सूर्यदृक्' इति, तत्र यदि हिमवगिरिनिकटवर्तिनामुर्दकवास उपदिश्यते अतिशीताकुलिते वा शिशिरादिकाले तदा प्राणवियोगो भवेदिति तद्देशकालपरिहारेणोदेकवासः कल्पनी. यः। तथा वयोविशेषादपि यदि नवतिवार्षिकादेरपूर्णद्वादशवार्षिकस्य वा द्वाद१ अङ्गवङ्गकलिङ्गांश्च. २ प्रायश्चित्तनिमित्तस्य ख. ३ उदवास ङ. ४ द्वादशवार्षिकादिकं ङ.
For Private And Personal Use Only