________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
अस्त्रानभोजनादौ हारीत आह—'वहन्कमण्डलुं रिक्तमस्नातोऽश्नंश्च भोजनम् । अहोरात्रेण शुद्धिः स्मादिनजप्येन चैव हि ॥' इति ॥ एकपतयुपविष्टानां स्नेहादिना वैषम्येण दानादौ यम आह-'न पतयां विषमं दद्यान्न या. चेत न जापयेत् । याचको दापको दाता न वै स्वर्गस्य गामिनः ॥ प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस्ततः ॥ नदीसंक्रमहन्तुश्च कन्याविघ्नकरस्य च ॥ समे विषमकर्तुश्च निष्कृतिर्नोपपद्यते ॥ त्रयाणामपि चैतेषां प्रत्यापैत्तिं च मार्गताम् । भैक्षलब्धेन चान्नेन द्विजश्चान्द्रायणं चरेत् ॥' इति । संक्रम उदकावतरणमार्गः । समे विषमकर्ता पूजादौ ॥ इन्द्रधनुर्दर्शनादावृष्यशृङ्ग आह-'इन्द्रचापं पलाशाग्निं यदन्यस्य प्रदर्शयेत् । प्रायश्चित्तमहोरात्रं धनुर्दण्डश्व दक्षिणा ॥' पतितादिसंभाषणे तु गौतम आह-'न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह वा संभाषेत तल्पानधनला. भवधे पृथग्वर्षाणि' इति । भार्यानधनानां लाभस्य वधे विघ्नकरणे प्रत्येकं संवत्सरं प्राकृतं ब्रह्मचर्यम् ॥ तथा-'ब्रह्मसूत्रं विना विण्मूत्रोत्सर्गादौ स्मृत्यन्तरे प्रायश्चित्तमुक्तम्'-'विना यज्ञोपवीतेन यधुच्छिष्टो भवेद्द्विजः। प्रायश्चित्तमहोरात्रं गायत्र्यष्टशतं तु वा ॥' तत्र ऊोच्छिष्टे उपवासः अधरोच्छिष्टस्योदकपानादिषु गायत्रीजप इति व्यवस्था । अकामतस्तु–'पिबतो मेहतश्चैव भुञ्जतोऽनुपवीतिनः । प्राणायामत्रिकं पवं नक्तं च त्रितयं क्रमात् ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ भुक्त्वा शौचाचमनमकृत्वोत्थाने तु– 'यद्युत्तिष्ठत्यनाचान्तो भुक्त्वा वानशनात्ततः । सद्यः स्नानं प्रकुर्वीत सोऽन्यथा पतितो भवेत् ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ चौराद्युत्सर्गादौ वसिष्ठ आह-'दण्डोत्सर्गे राजैकरात्रमुपवसेत्रिरात्रं पुरोहितः कृच्छ्रमदण्ड्यदण्डने पुरोहितस्विरानं राजा कुनखी श्यावदन्तश्च कृच्छ्रे द्वादशरात्रं चरित्वोद्धरेयाताम्' इति । उद्धरेयातां कुत्सितानां दन्तानां नखानां चोद्धरणं कुर्यातामित्यर्थः । स्तेनपतितादिपतिभोजने तु मार्कण्डेय आह–'अपातेयस्य यः कश्चित्पतौ भुते द्विजोत्तमः । अहोरात्रोपितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥' इति ॥
नीलीविषये त्वापस्तम्ब आह-'नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ रोमकूपैर्यदा गच्छेद्रसो नील्यास्तु कस्यचित् । त्रिषु वर्णेषु सामान्यं तप्तकृच्छ्रे विशोधनम् ॥ पालनं विक्रयश्चैव तद्वृत्या चोपजीवनम् । पातनं च भवेद्विप्रस्त्रिभिः कृच्छ्रेय॑पोहति ॥ नीलीदारु यदा भिन्द्याद्राह्मणस्य शरीरतः । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् ॥ स्त्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यति ॥' इति । भृगुणाप्युक्तम्-'स्त्रीयता शयने नीली ब्राह्मणस्य न दुष्यति । नृपस्य वृद्धौ वैश्यस्य पर्ववज्यं विधारणम्' इति ॥ तथा वस्त्रविशेषकृतश्च प्रतिप्रसवः–'कम्बले पट्टसूत्रे च नीलीरागो न दुष्यति ॥' इति स्मरणात् ॥ ब्रह्मतरुनिर्मितखट्वाधारोहणे शङ्ख आह
१ निष्कृतिन विधीयते इति पाठः. २ प्राजापत्यं तु मार्गणमिति पाठः. ३ त्रिवर्णेषु च सामान्यं ङ. ४ भवेद्विप्रे त्रिभिः ङ,
For Private And Personal Use Only