________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
४५५
वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने षडानमभोजनम्' इति तदकामविषयम् । तत्राभ्यासे द्वैगुण्यादिकं कल्प्यम्। एतच्च पित्रादिव्यतिरेकेण । -'पितुर्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यम्' इत्यापस्तम्बस्मरणात् । यत्तु बृहद्यासवचनम्-'माता वा भगिनी वापि भार्या वान्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥' इति, तत्सहभोजनविषयम् । उच्छिष्टमात्रभोजने तु 'शूद्रोच्छिष्टभोजने सप्तरात्रमभोजनं स्त्रीणां च' इत्यापस्तम्बोक्तं द्रष्टव्यम् । यत्त्वगिरोवचनम्-'ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन । तत्र दोषं न मन्यन्ते सर्व एव मनीषिणः ॥' इति, तद्विवाहविषयमापद्विषयं वा । अन्त्योच्छिष्टभोजने तु–'अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः । चान्द्रं कृच्छं तदधं च ब्रह्मक्षत्रविशां विधिः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्त्यावसाय्युच्छिष्टभोजने तु–'चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । चान्द्रायणं चरेद्विप्रः क्षत्रः सान्तपनं चरेत् ॥ षड्रानं च त्रिरात्रं च वर्णयोरनुपूर्वशः ॥' इत्यङ्गिरोभिहितं सान्तपनमत्र महासान्तपनं द्रष्टव्यम् । आपदि तु–'आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुध्येत्तु द्रुपदानां शतं जपेत् ॥' इति पराशरोक्तं वेदितव्यम् ॥ यत्तु बृहच्छातातपेनोक्तम्- 'पीतशेषं तु यत्किंचिद्भाजने मुखनिःसृतम् । अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥' इति, तदभ्यासविषयम् । निमित्तस्यातिलघुत्वात् । -'पीतोच्छिष्टं च पानीयं पीत्वा तु ब्राह्मणः क्वचित् । त्रिरात्रं तु व्रतं कुर्याद्वामहस्तेन वा पुनः ॥' इति । एतद्बुद्धिपूर्वविषयम् । अकामतस्त्वधैं कल्प्यम् । दीपोच्छिष्टे तु–'दीपोच्छिष्टं तु यत्तैलं रात्रौ रथ्याहृतं च यत् । अभ्यङ्गाच्चैव यच्छिष्टं भुक्त्वा नक्तेन शुध्यति ॥' इति षत्रिंशन्मतोक्तं द्रष्टव्यम् ॥
अथाशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः– 'केशकीटावपन्नं च नीलीलाक्षोपघातितम् । स्त्रायवस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेदहः॥' इति । तथाह शातातपः- 'केशकीटावपन्नं च रुधिरमांसास्पृश्यस्पृष्टभ्रूणनावेक्षितपतत्र्यवलीढश्वसूकरगवाघ्रात शुक्तपर्युषितवृथापक्कदेवानहविषां भोजने उप. वासः पञ्चगव्याशनं च ॥' इति, एतच्चोभयमपि अकामविषयम् । कामतस्तु 'मृ. द्वारिकुसुमादींश्च फलकन्देक्षुमूलकान् । विण्मूत्रदूषितान्प्राश्य कृच्छ्रपादं समाचरेत् ॥ संनिकृष्टेऽर्धमेव स्यात्कृच्छ्रः स्याच्छुचिशोधनम् ॥' इति विष्णूक्तं वेदितव्यम् । अल्पसंसर्गे पादो महासंसर्गेऽर्धकृच्छ्र इति व्यवस्था । यत्तु व्यासेनोक्तम्-'संसर्गदुष्टं यच्चान्नं क्रियादुष्टं च कामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रे समाचरेत् ॥' इति । एतच्च संसृष्टामेध्यादिरसोपलब्धौ वेदितव्यम् । रजस्वलादिस्पर्श तु शोक्तम्-'अमेध्यपतितचण्डालेपुल्कसरजस्वलावधूतकुणिकुष्टिकुनखिसंस्पृष्टानि भुक्त्वा कृच्छ्रे चरेत्' इति । कुणिर्हस्तविकलः । एतत्कामकारविषयम् । अकामतोऽर्धम् । 'भुक्त्वास्पृश्यैस्तथाशौचिकेशकीटैश्च १ तद्विजस्यादुर्भुक्त्वा ङ. २ शुष्कपर्युषित ङ. ३ शुचिभोजने ङ. ४ पुष्कस ङ,
For Private And Personal Use Only