________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
इति तत्कामतोऽत्यन्ताभ्यासविषयम् । यत्तु स्मृत्यन्तरोक्तम्-'जग्ध्वा मांसं नराणां च विवराह खरं तथा । गवाश्वकुञ्जरोष्ट्राणां सर्वं पाञ्चनखं तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात्संवत्सरव्रतम् ॥' इति, तदत्यन्तानवच्छिन्नाभ्यासविषयम् । अत्र प्रकरणे मूत्रपुरीषग्रहणं वसाशुक्रासृमजानामुपलक्षणम् । कर्णविप्रभृतिमलषट्के त्वधैं कल्पनीयम् ॥
केशादिषु पुनः षट्त्रिंशन्मते विशेष उक्तः-'अजाविमहिषमृगाणां आममांसभक्षणे केशनखरुधिरप्राशने बुद्धिपूर्वे त्रिरात्रमज्ञानादुपवास इति । यत्तु प्रचेतसोक्तम्-'नखकेशमृल्लोष्टभक्षणेऽहोरात्रमभोजनाच्छुद्धिः' इति तदप्यकामतः सकृत्प्राशनविषयम् । यत्तु स्मृत्यन्तरवचनम्- 'केशकीटनखं प्राश्य मत्स्यकण्टकमेव च । हेमतप्तं घृतं पीत्वा तत्क्षणादेव शुध्यति ॥' इति तन्मुख. मात्रप्रवेशविषयम् ॥ यदा तु भाजनस्थमन्नं केशादिदूषितं भवति तदा-'भन्ने भोजनकाले तु मक्षिकाकेशदूषिते । अनन्तरं स्पृशेदापस्तच्चान्नं भस्सना स्पृशेत्॥' इति प्रचेतसाभिहितं वेदितव्यम् । प्रासङ्गिकोऽयं श्लोकः ॥ सूक्ष्मतरकृमिकीटास्थिभक्षणे पुनर्हारीतेन विशेष उक्तः-'कृमिकीटपिपीलिकाजलौकापतङ्गास्थिप्राशने गोमूत्रगोमयाहारविरात्रेण विशुध्यति' इति । जलौको मत्स्यादिः । एवंच पशुपतन्निजलचरनरमांसादिप्राशने संक्षेपतः प्रायश्चित्तानि प्रदर्शितानि ग्रन्थगौरवभयात्प्रतिव्यक्ति न लिख्यते ॥
अथाशुचिसंस्पृष्टभक्षणे प्रायश्चित्तं तत्र तावदुच्छिष्टाभक्ष्यभक्षणे वक्ष्यते । तत्र मनुः। (११३१५९)-'बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकीटावपन्नं च पिबेद्राह्मीं सुवर्चलाम् ॥' इति कालविशेषानुपादानादेकरानं । इदं च कामतो द्रष्टव्यम् । यत्तु विष्णुनोक्तम्-'पक्षिश्वापदजग्धस्य रसस्या. नस्य भूयसः । संस्काररहितस्यापि भोजने कृच्छ्रपादकम् ॥' इति, तत्कामकारविषयम् । संस्कारश्च मानवे देवद्रोण्यामित्यादिना द्रव्यशुद्धिप्रकरणोक्तो द्रष्टव्यः। यत्तु शातातपेनोक्तम्-'श्वकाकाद्यवलीढशूद्रोच्छिष्टभोजने त्वतिकृच्छ्र:' इति, तदकामतोऽभ्यासविषयम् । यत्तु शकेन-'शुनामुच्छिष्टकं भुक्त्वा मासमेकं व्रती भवेत् । काकोच्छिष्टं गवा घ्रातं भुक्त्वा पक्षं व्रती भवेत् ॥' इति यावकव्रतमुक्तं, तत्कामतोऽभ्यासविषयम् । ब्राह्मणाधुच्छिष्टभोजने तु बृहद्विपुणुनोक्तं- 'ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं पञ्चगव्यं पिबेत् वैश्योच्छिष्टाशने पञ्चरात्रं राजन्योच्छिष्टाशने त्रिरात्रं ब्राह्मणोच्छिष्टाशने त्वेकाहम्' इति, तकामकारविषयम् । यत्तु यमवचनम्-'भुक्त्वा सह ब्राह्मणेन प्राजापत्येन शुध्यति । भूभुजा सह भुक्त्वान्नं तप्तकृच्छ्रेण शुध्यति ॥ वैश्येन सह भुक्त्वानमतिकृच्छ्रेण शुध्यति । शूद्रेण सह भुक्त्वान्नं चान्द्रायणमथाचरेत् ॥' इति तत्कामतोऽभ्यासविषयम् ॥ यत्पुनः शङ्कवचनम-'ब्राह्मणोच्छिष्टाशने महाव्याहृतिभिरभिमन्यापः पिबेरक्षत्रियोच्छिष्टाशने ब्राह्मीरसविपक्वेन व्यहं क्षीरेण
१ गव्यं मांसमिति पाठः. २ संस्कारश्च देवद्रोण्यां ख.
For Private And Personal Use Only