SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता | ४५३ इति । यच्च शङ्खन - ' क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्तरात्रं व्रतं कुर्यात्प्रयत्नेन समाहितः ॥' इति यावकव्रतमुक्तं तदुभयमपि कामतोऽभ्यासविषयम् । यत्तु शङ्खन - 'संधिन्यमेध्यभक्षेयोः क्षीरप्राशने पक्षव्रतमुक्तम्'संधिन्य मेध्यभक्षेयोर्भुक्त्वा पक्षव्रतं चरेत्' इति, तदप्यभ्यासविषयम् । सकृत्याने गोजामहिषीवर्ज्यं सर्वाणि पयांसि प्राश्योपवसेत् । अनिर्दशाहं तान्यपि संधिनीयमसूस्यन्दिनी विवत्साक्षीरं चामेध्यभुजश्च' इति विष्णुनोपवासस्योक्तत्वात् । तथा वर्णनिबन्धनश्च प्रतिषेधः - 'क्षत्रियश्चापि वृत्तस्थो वैश्यः शूद्रोsथवा पुनः । यः पिबेत्कपिलाक्षीरं न ततोऽन्योऽस्त्यपुण्यकृत् ॥' इत्येवमादौ च यत्र प्रतिपदोक्तं प्रायश्चित्तं न दृश्यते तत्र 'शेषेषूपवसेदहः' इति साधारणप्रायश्चित्तं मनूक्तं दृष्टव्यम् ॥ -'वरा अथ स्वभावदुष्टमांसादिभक्षणे प्रायश्चित्तमुक्तम् । तन्त्र कामतः सकृद्भक्षणे 'शेषेधूपवसेदहः' इति मनूक्तं साधारणं प्रायश्चित्तं द्रष्टव्यम् । कामतस्तु - 'चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासख्यहं वसेत् ॥' इति योगीश्वरोक्तं द्रष्टव्यम् । कामतोऽभ्यासे तु ( ११।१५२ ) -- ' जग्ध्वा मांसमभक्ष्यं तु सप्तैरात्रं यवान्पिवेत्' इति मनूक्तं द्रष्टव्यम् । इदंच विट्सुकरादिमांसव्यतिरिक्तविषयम् ( ११।१५६ ) - 'कव्याद्विदसूकरोष्ट्राणां कुक्कुटानां च भक्षणे । नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥' इति मनुना जातिविशेषेण प्रायश्चित्तविशेषस्योक्तत्वात् । एतन्मूत्रपुरीषप्राशनेऽप्येतदेव | --- हैकशफानां च काककुक्कुटयोस्तथा । क्रव्यादानां च सर्वेषामभक्ष्या ये च कीर्तिताः ॥ मांसमूत्रपुरीषाणि प्राश्य गोमांसमेव च । श्वगोमायुकपीनां च तप्तकृच्छ्रं विधी - यते ॥ उपोष्य वा द्वादशाहं कूष्माण्डैर्जुहुयाद्धृतम् ॥' इति बृहद्यमस्मरणात् । तत्र कामतस्तप्तकृच्छ्रः अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था ॥ तथा प्रचेतसाप्युक्तम्- 'श्वसृगालका ककुक्कुटपात वानर चित्र कचापक्रव्यादखरोष्ट्रग जवाजिविवराहगोमानुषमांसभक्षणे तप्तकृच्छ्रमादिशेदेषां मूत्रपुरीषभक्षणे त्वतिकृच्छ्रम्' इति । इदं च कामकारविषयम् । यत्तूशनसो वचनम् -' नरमांसं श्वमांसं वा गोमांसं वाश्वमेव वा । भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥' इति, तदकामविषयम् ॥ यत्त्वङ्गिरोवचनम् — 'बलाकाभासगृध्राखुखरवानरसूकरान् । दृष्ट्वा चैषाममेध्यानि स्पृष्ट्वाचम्य विशुध्यति ॥ इच्छयैषाममेध्यानि भक्षयित्वा द्विजातयः । कुर्युः सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ इति, तद्भक्षितोद्वारितविषयम् । सान्तपनशब्देन चात्र महासान्तपनमुच्यते । अकामतः प्राजापत्यविधानात् । यत्पुनरङ्गिरोवचनम् -'नरकाकखराश्वानां जग्ध्वा मांसं गजस्य च । एषां मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥' इति । यच्च बृहद्यमेनोक्तम्- 'शुष्क मांसाशने विप्रो व्रतं चान्द्रायणं चरेत्' इति । तदुभयमपि कामतोऽभ्यास विषयम् । यत्पुनः शङ्खेनोक्तम्- 'भुक्त्वा चोभयतोतांस्तथा चैकशफानपि । औष्ट्रं गव्यं तथा जग्ध्वा षण्मासान्यतमाचरेत् ॥' I १ भक्षायाः ङ. २ भक्षायाः ङ. ३ सप्तरात्रं पयः पिबेदिति क. ४ खराश्वानां ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy