SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५२ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः जात्याश्रयादिदोषेण निन्द्यान्नादेश्व शब्दतः । योगीन्द्रोक्तवतव्रातः सांप्रतं तु प्रतन्यते ॥ तत्र जातिदुष्टपलाण्ड्वादिभक्षणे कामतः सकृरकृते 'पलाण्डु विवराहं च' इत्यादिना चान्द्रायणमुक्तम् । कामतोऽभ्यासे तु 'निषिद्धभक्षणं जैहयं' इत्यादि. नोक्तं सुरापानसमप्रायश्चित्तम् । अकामतः सकृद्भक्षणे सान्तपनम् । तत्रैवाभ्यासे यतिचान्द्रायणम् । (५।२०)-'अमत्यैतानि षट् जग्ध्वा कृच्छ्रे सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥' इति मनुस्मरणात् । यत्तु बृहद्यमेनोक्तम्-'खट्रवार्ताककुम्भीकत्रश्चनप्रभवाणि च । भूतृणं शिग्रुकं चैव खुखण्डं कवकानि च ॥ एतेषां भक्षणं कृत्वा प्राजापत्यं चरेविजः ॥' इति, तत्कामतोऽभ्यासविषयम् । 'मत्स्यांश्च कामतो जग्ध्वा सोपवासरूयह क्षिपेत्' इति योगीश्वरेण कामतः सकृद्भक्षणे व्यहस्योक्तत्वात् । खट्वाख्यः पक्षी । कुसु. म्भमित्यन्ये । कवकं राजसर्षपाख्य शाकम् । खुखण्डं तद्विशेषो गोबलीवर्दन्यायेन निर्दिष्टः । यत्तु यमेनोक्तम्-'तन्दुलीयककुम्भीकत्रश्चनप्रभवांस्तथा । ना. लिकां नारिकेली च श्लेष्मातकफलानि च ॥ भूतृणं शिकं चैव खवाख्यं कवक तथा । एतेषां भक्षणं कृत्वा प्राजापत्यं व्रतं चरेत् ॥' इति, तदपि मतिपूर्वाभ्या. सविषयम् । नालिका नारिकेली च शाकविशेषौ । खट्वाख्यश्च । अकामतः सवदक्षणे तु 'शेषेपूपवसेदहः' इति मनूक्तं द्रष्टव्यम् । तत्रैवाभ्यासे त्वावृत्तिः कल्प्या। अत्यन्ताभ्यासे तु-संसर्गदुष्टं यच्चान्नं क्रियादुष्टमकामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रे समाचरेत् ॥” इति प्रचेतोभिहितं द्रष्टव्यम् । नील्यास्त्वकामतः सकृद्भक्षणे चान्द्रायणम्-'भक्षयेद्यदि नीली तु प्रमादाद्राह्मणः क्वचित् । चान्द्रायणेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥' इति आपस्तबस्मरणात् । कामतोऽभ्यासे चावृत्तिः कल्प्या ॥ यदपि पत्रिंशन्मतेऽभिहितम्-'शणपुष्पं शाल्मलं च-करनिर्मथितं दधि । बहिर्वेदिपुरोडाशं जग्ध्वा नाद्यादहर्निशम् ॥' इति, तदप्यकामविषयम् । यत्तु सुमन्तुनोक्तम्-'लशुनपलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि संपातान्नयेत्' इति, तद्वला. कारेणानिच्छतो भक्षणविषयम् । तदेकसाध्यव्याध्युपशमार्थे वा भक्षणे द्रष्टव्यम् । अतएवानन्तरं तेनैवोक्तम्-'एतान्येव व्याधितस्य भिषक्रियायामप्रतिषिद्धानि भवन्ति । यानि चैवंप्रकाराणि तेवपि न दोषः' इति । संपातान्नये. दुदकबिन्दून्प्रक्षिपेत् ॥ __ अथ जातिदुष्टसंधिन्यादिक्षीरदाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने (५।८-१०)-'अनिर्दशाया गोः क्षीरमौष्ट्रमेकशर्फ तथा । अविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः ॥ आरण्यानां च सर्वेषां मृगाणां महिषी विना । स्त्रीक्षीरं चैव वानि सर्वशुक्तानि चैव हि ॥ दधि भक्ष्यं च शुक्तेषु सर्व च दधिसंभवम्' इत्युक्त्वा 'शेषेषूपवसेदहः' इति मनूक्त उपवासो द्रष्टव्यः । कामतस्तु योगीश्वरोक्तस्त्रिरात्रोपवासो द्रष्टव्यः ॥ यत्तु पैठनसिनोक्तम्-'भविखरोष्ट्रमानुषीक्षीरप्राशने तप्तकृच्छ्रः पुनरुपनयनं च । अनिर्दशाहगोमहिषीक्षी. रनाशने षडानमभोजनम् । सर्वासां द्विस्तनीनां क्षीरपानेऽप्यजावर्जमेतदेव' For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy