________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ]
मिताक्षरासहिता ।
४५१
पपातकप्रायश्चित्तानि कामाकामतो व्यवस्थापनीयानि । परपाकरुचित्वा सच्छास्वाधिगमनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ २८८ ॥
भार्याया विक्रयश्चैषामित्यत्र चशब्दो मन्वाद्युक्तासम्प्रतिग्रहनिन्दितान्नादनादीनामुपलक्षणार्थमित्युक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चित्तविशेषमाह -
गोष्ठे वसन्त्रह्मचारी मासमेकं पयोव्रतः ।
गायत्री प्यनिरतः शुध्यते ऽसत्प्रतिग्रहात् ।। २८९ ॥
3
यस्त्वत्प्रतिग्रहं निषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायश्री जप्यनिरतो गायत्री जपशीलो मासं पयोव्रतेन शुध्यतीति । प्रतिग्रहस्य चासत्वं दातुर्जातिकर्म निबन्धनं यथा चण्डालादेः पतितादेश्व । तथा देशकालनिबन्धनं च यथा कुरुक्षेत्रोपरागादौ । तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरामेषीमृतशय्योभयतो मुख्यादेः ॥ यदा तु पतितादेर्मेध्यादिकं प्रेतिगृह्णाति तदैतद्गुरुप्रायश्चित्तं दृष्टव्यम् । व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना संख्याविशेष उक्तः ( ११ । १९४ ) – 'जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥' इति प्रत्यहं त्रिसहस्रपो दृष्टव्यः । मासमिति द्वितीयया त्रिसहस्रसंख्याकस्य जपत्य प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशान्निषिद्धं मेषादिकं गृह्णाति पतितादेव भूम्यादिकमनिषिद्धं तदा पटूत्रिंशन्मतोक्तं द्रष्टव्यम् - 'पवित्रेष्ट्या विशुध्यन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्दवेन मृगारेष्ट्या कदाचिन्मित्रविन्दया || देव्या लक्षजपेनैव शुध्यन्ते दुष्प्रतिग्रहात् ॥' इति । यत्तु बृहद्धारीतवचनम् - ' राज्ञः प्रतिग्रहं कृत्वा मासमप्सु सदा वसेत् । षष्ठे काले पयोभक्ष: पूर्णे मासे विशुध्यति ॥ तर्पयित्वा द्विजान्कामैः सततं नियतव्रतः ॥' इति । तत्पूर्वोक्तविषयेऽभ्यासे द्रष्टव्यम् । अथवा पतितादेः कुरुक्षेत्रोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पत्तया प्रायश्चित्ताल्पत्वम् । यथाह हारीतः - 'मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्' इति । तथा पत्रिंशन्मतेऽपि - भिक्षामात्रे गृहीते तु पुण्यं मन्त्रमुदीरयेत् । प्रतिग्रहेषु सर्वेषु षष्टमंशं प्रकल्पयेत् ॥' इतीदं च प्रायश्चित्तजातं द्रव्यत्यागोत्तरकालं द्रष्टव्यम् । (११।१९३ ) - 'यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥' इति मनुस्मरणात् । एवमन्यान्यपि स्मृतिवाक्यानि द्रव्यसाराल्पत्व महत्त्वाभ्यां विषयेषु व्यवस्थापनीयानि ॥
इत्युपपातकप्रायश्चित्तप्रकरणम् ॥
१ जाप्यनिरतः ख २ दिकंगृह्णाति ङ. ३ पूर्णमासे प्रमुच्यते इति पाठः ४ मात्रं गृहीत्वा तु ख.
या० ४१
For Private And Personal Use Only