________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
दर्दानेन वा पुनः । गां वा दद्यादृषं चैकं ब्राह्मणाय विशुद्धये ॥' इति बृहदङ्गिरसोक्तं द्रष्टव्यम् । यत्तु वसिष्ठवचनम्-'ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥' इति तदुत्तमाङ्गदं. शविषयम् ॥ स्त्रीणां तु–'ब्राह्मणी तु नाशु दष्टा जम्बुकेन वृकेण वा । उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥' इति पराशरोक्तं द्रष्टव्यम् । कृच्छ्रादिव्रतस्थायाः पुनस्तेनैव विशेषो दर्शितः-'विरानमेवोपवसेच्छुना दष्टा तु सुवेता। सघृतं यावकं भुक्त्वा व्रतशेषं समापयेत् ॥' इति ॥ रजस्वलायामपि विशेषः पुलस्त्येन दर्शित:--'रजस्वला यदा दष्टा शुना जम्बुकरासभैः। पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥ ऊर्ध्वं तु द्विगुणं नाभेर्वक्रे तु त्रिगुणं तथा। चतुर्गुणं स्मृतं मूर्ध्नि दष्टेऽन्यत्राप्लुतिर्भवेत् ॥' इति । अन्यत्राऽरजस्वलावस्थायाम् । यस्तु श्वादिभिर्घाणादिनोपहन्यते तस्य शातातपेन विशेष उक्तः-'शुना घ्राणावलीढस्य नखैर्विलिखितस्य च । अनिः प्रक्षालनं शौचमग्निना चोपचूलनम् इति । उपचूलनं तापनम् ॥ यदा तु श्वादिदंशशस्त्रधातादिजनितव्रणे कृमय उत्पद्यन्ते तदा मनुना विशेष उक्तः–'ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे । कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ गवां मूत्रपुरीषेण त्रिसंध्यं स्नानमाचरेत् । त्रिरात्रं पञ्चगव्याशी त्वधोनाभ्या विशुध्यति ॥ नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते कृमिः। षड्राँत्रं तु व्यहं पञ्चगव्याशनमिति स्मृतम् ॥' तत्र श्वादिदंशवणे तदं. शप्रायश्चित्तानन्तरमिदं कर्तव्यम् । शस्त्रादिजनितव्रणे त्वेतदेव, त्र्यहं पञ्चगव्याशनादिकमिति शेषः । क्षत्रियादिषु तु प्रतिवर्ण पादपादह्रासः कल्पनीयः ॥२७७॥
शारीरत्वग्धातुविच्छेदकदंशप्रायश्चित्तप्रसङ्गाच्छारीरचरमधातुविच्छेदकस्कन्दने प्रायश्चित्तमाह
यन्मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमत्रयेत् ।
स्तनान्तरं भ्रुवोर्मध्यं तेनानामिकया स्पृशेत् ॥ २७८ ॥ यदि कथंचित्स्त्रीसंभोगमन्तरेणापि हठाच्चरमधातुर्विसृष्टस्तदा तत्स्कन्नं रेतो यन्मेऽद्य रेतः पृथिवीमस्कन् पुनर्मामैत्विन्द्रियमित्याभ्यां मन्त्राभ्यामभिमन्त्रयेत् । तेन चाभिमत्रितेन रेतसा स्तनयोध्रुवोश्च मध्यमुपकनिष्ठिकया स्पृशेत् ॥ अन्ये तु स्कन्नस्य रेतसोऽशुचित्वेन स्पर्शकर्मण्ययोग्यत्वात्तेनेत्यनामिकासाहचर्यास्त्रबु. द्धिस्थाङ्गुष्ठपरत्वेन व्याचक्षते । तेनाङ्गुष्ठेनानामिकया चेति अङ्गुष्ठपदग्रहणे वृत्तभङ्गप्रसङ्गात्तेनेति निर्दिष्टमिति । तदसत् । अङ्गुष्टस्याबुद्धिस्थत्वात् । नच शब्दसंनिहितपरित्यागेनार्थाद्बुद्धिस्थस्यान्वयो युक्तः। तदुक्तम्-'गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतीति वत् ॥' इति । नच रेतसोऽशुचित्वेन स्पर्शायोग्यत्वम् । विधानादेव प्रायश्चित्तार्थरूपस्पर्शे योग्यत्वमवगम्यते प्रायश्चित्तरूपपान इव सुरायाः। इदं च प्रायश्चित्तं गृहस्थस्यैवा
१ विशुध्यति ङ. २ सव्रता ख. ३ चोपकूलनं. ४ षडात्र च तदा प्रोक्तं प्राजापत्यं विशोधनं ङ.
For Private And Personal Use Only