________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरा सहिता ।
४३७
इन्धनार्थं द्रुमच्छेद इत्युपपातकोद्देशे पठितं, हिंसाप्रसङ्गलोभेन तद्व्युत्क्रमपठितमप्यपकृष्य तत्र प्रायश्चित्तमाह-
वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् । स्यादोषधिवृथाच्छेदे क्षीराशी गोऽनुगो दिनम् ॥ २७६ ॥
फलदानां आम्रपनसादिवृक्षाणां गुल्मादीनां च यज्ञाद्यदृष्टार्थ विना छेदने ऋचां गायत्र्यादीनां शतं जप्तव्यम् । औषधीनां तु ग्राम्यारण्यानां वृथैव छेदने दिनं कृत्स्नमहर्गवां परिचर्यार्थमनुगम्यान्ते क्षीरं पिवेदाहारान्तरपरित्यागेन । पञ्चयज्ञार्थे तु न दोषः । एतच्च फलादिद्वारेणोपयोगिषु द्रष्टव्यम् । (मनु: ११ । १४२ ) - ' फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥' इति मनुस्मरणात् । दृष्टार्थत्वेऽपि कर्षणाङ्गभूतहलाद्यर्थत्वे न दोषः । 'फलपुष्पोपगान्पादपान्न हिंस्यात्कर्षणकरणार्थं चोपहन्यात्' इति वसिष्ठस्मरणात् । यत्र तु स्थानविशेषाद्दण्डाधिक्यं तत्र प्रायश्चित्ताधिक्यमपि कल्पनीयम् । तदुक्तम्- 'चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥' इति । अयं च ऋक्शतनपो द्विजातिविषयो न पुनः शूद्रादिविषयः । तेषां जपेऽनधिकारात् । अतस्तेषां दusiनुसारेण द्विरात्रादिकं कल्पनीयम् । उपपातकमध्ये विशेषतः पाठस्थानथैंक्यपरिहारार्थमुपपातकसाधारणप्राप्तं प्रायश्चित्तमप्यन्त्र भवति । तच्च गुरुत्वादभ्यासविषयं कल्प्यम् ॥ २७६ ॥
पुंश्चली वानरादिवध प्रायश्चित्तप्रसङ्गात्तद्देशनिमित्तं प्रायश्चित्तमाह-
पुंश्चलीवानरखरैर्दष्टैश्वोष्ट्रादिवायसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ २७७ ॥
पुंश्चल्यादयः प्रसिद्धाः एतैर्दष्टः पुमानन्तर्जले प्राणायामं कृत्वा घृतं प्राश्य विशुध्यति । आदिग्रहणाच्छृगालादीनां ग्रहणम् । यथाह मनुः ( ११।१९९ ) - 'श्वसृगालखरैर्दष्ट ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥' इति । अयं च घृतप्राशो भोजनप्रत्याम्नायो द्रष्टव्यः प्रायश्चित्तानां तपोरूपत्वेन शरीरसंतापनार्थत्वात् । एतदशक्तविषयम् । - 'श्वसृगालमृगमहिषाजाविकर करभन कुल मार्जारमूषक पुवबकका कपुरुषदष्टानामापोहिष्टेत्यादिभिः स्नानं प्राणायामन्त्रयं च ॥' इति यत्सुमन्तुवचनं तन्नाभेरधः प्रदेश ईपदष्टविषयम् । यत्त्वङ्गिरोवचनम् - 'ब्रह्मचारी शुना दष्टस्यहं सायं पिबेत्पयः । गृहस्थश्वेद्विरात्रं तु एकाहं योऽग्निहोत्रवान् ॥ नाभेरूर्ध्व तु दृष्टस्य तदेव द्विगुणं भवेत् । स्यादेतत्रिगुणं वक्ते मस्तके तु चतुर्गुणम् ॥' इति तत्सम्यग्दष्टविषयम् । क्षत्रियवैश्ययोस्तु पादपादन्यूनं कल्पनीयम् । शुद्रस्य तु — 'शूद्राणां चोपवासेन शुद्धि
१ दण्डानुसारात् ङ. २ साधारणप्रायश्चित्तं ङ. ३ दष्टवादि ख. ४ मूषिकाप्लव ख.
For Private And Personal Use Only