________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः स्वादिगुणयोगिनीनां कामतो व्यापादने द्रष्टव्यम् । अकामतस्तु सर्वत्रार्धं कल्प्यम् । आत्रेय्यां तु प्रागुक्तम् ॥
इति स्त्रीवधप्रायश्चित्तप्रकरणम् ॥ हिंसाप्रायश्चित्तप्रसङ्गात्प्रकीर्णकपदाभिधेयानुपपातकप्राणिवधेऽपि प्रायश्चितमाह
अस्थिमतां सहस्रं तु तथानस्थिमतामनः ।। २६९ ॥ अस्थिमतां प्राणिनां कृकलासप्रभृतीनामनुक्तनिष्कृतीनां सहस्रं हत्वा अनस्थिमतां च यूकामत्कुणदंशमशकप्रभृतीनामनः शकटं तत्परिपूर्णमानं दत्वा शूद्रहत्याव्रतं पाण्मासिकं प्राकृतं ब्रह्मचर्य चरेद्दशधेनूर्वा दद्यात् । सहस्रमिति परिमाणनियमात्ततोऽधिकवधे त्वतिरिक्त कल्प्यम् । अर्वाक्पुनःप्रत्येकंवधेतु'किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके' इति वक्ष्यति । तथानस्थिमतामन इत्येतच्च क्षोदिष्टजन्तुविषयम् । स्थविष्ठानस्थिघुणादिजन्तुवधे तु 'कृमिकीटवयो हत्वा' इत्यादिना मलिनीकरणीयान्यभिधाय 'मलिनीकरणीयेषु तप्तः स्याद्यावकस्यहम्' इति मनूक्तं द्रष्टव्यम् ॥ २६९ ॥
मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः।।
हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रे वा पादिकं चरेत् ॥ २७० ॥ किंच । मार्जारादयः प्रसिद्धाः पतत्रिणश्चापकाकोलूकास्तान् हत्वा त्रिरात्रं पयः पिबेत् पादकृच्छ्रे वा चरेत् । वाशब्दाद्योजनगमनादिकं वा कुर्यात् ॥ यथाह मनुः (११११३२)-'पयः पिबेत्रिरात्रं वा योजनं वाध्वनो व्रजेत् । अपः स्पृशेसवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥' इति । इदं च प्रत्येकवधविषयम् । समुदितवधे तु (११३१३१)-'मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च । श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥' इति मनूक्तं पाण्मासिकं द्रष्टव्यम् ॥ यत्पुनर्वसिष्ठेनोक्तम्-'श्वमार्जारनकुलमण्डूकसर्पदहरमूषिकान्हत्वा कृच्छ्रे द्वादशरात्रं चरेकिंचिद्दद्यात्' इति तत्कामतोऽभ्यासविषयं वेदितव्यम् । दहरोऽल्पमूषकश्छुच्छुन्दरी वा ॥ २७ ॥
गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ २७१ ॥ किंच । दन्तिनि व्यापादिते पञ्च नीलवृषा देयाः । शुके पक्षिणि द्विवर्षो वत्सः । रासभच्छागैडकेषु व्यापादितेषु प्रत्येकमेको वृषः । क्रौञ्च पक्षिणि बिहा. यनो वत्सः। देय इति सर्वत्रानुषङ्गः ॥ मनुनाप्यत्र विशेष उक्तः (११।१३६)'वासो दद्याद्धयं हत्वा पञ्च नीलान्वृषान्गजम् । अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥' इति ॥ २७१ ॥
१ उपस्पृशेत् ङ.
For Private And Personal Use Only