________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४३३
वसिक्तादीनां वधे एतत्प्रायश्चित्तजातं न भवति । तेषां क्षत्रियादित्वाभावात् । अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रत कदम्बस्य वृद्धि हासौ कल्पनीयौ । दण्डस्य च वृद्धिहासौ दर्शितौ - ' दण्डप्रणयनं कार्य वर्णजात्युत्तराधरे' इत्यत्र ॥ २६६ ॥ २६७ ॥ इति क्षत्रियादिवध प्रायश्चित्तप्रकरणम् ।
स्त्रीवधे प्रायश्चित्तमाह
दुर्वृत्रह्मविदक्षत्रशूद्रयोपाः प्रमाप्य तु । तं धनुस्तमविं क्रमादद्याद्विशुद्धये ॥ २६८ ॥
ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधारचर्मकोशं धनुः कार्मुकं बस्तं छागं अविं मेपं च विशुद्धये दद्यात् । इदं च प्रातिलोम्येनान्त्यजातिप्रसूतानां ब्राह्मण्यादीनामकामतो वधविषयम् । कामतस्तु ब्रह्मगर्भ आह - 'प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति । ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश्चत्वारो वैश्याया द्वावित्येवं यथार्हतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं व्यापादयति तदा किंचिद्देयम् । 'वैशिकेन किंचित्' इति गौतमस्मरणात् । वैशिकेन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिदेव देयं तच्च जलम् । 'कोशं कूपे च विप्रे वा ब्राह्मण्याः प्रतिपादयेत् । वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे स्मृतः ॥ शूद्रायामाविकं वैश्यां हत्वा दद्याज्जलं नरः ॥' इत्यङ्गिरः स्मरणात् । यदा पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गोवधप्रायश्चित्तानि यथार्ह योज्यानि ॥ २६८ ॥
ईषव्यभिचरितब्राह्मण्यादिवधे विशेषमाह
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्यात्रतं चरेत् ।
यदा त्वप्रकर्षेण दुष्टामीषव्यभिचारिणीं ब्राह्मण्यादिकां व्यापादयति तदा शूद्रहत्यातं पाण्मासिकं कुर्यात् । यद्वा दशधेनूर्दद्यात् । इदं च षाण्मासिकमकामतो ब्राह्मण्या व्यापादने, क्षत्रियावधे तु कामकृते द्रष्टव्यम् । कामतो वैश्यावधे दशधेनूर्दद्यात् । कामतः शूद्रावधे तु उपपातकसाधारणप्राप्तं मासं पञ्चगव्याशनम् । यदा तु कामतो ब्राह्मणीं व्यापादयति तदा द्वादशमासिकम् । क्षत्रियादीनां त्वकामतो व्यापादने त्रैमासिक सार्धमासिक सार्धद्वाविंशत्यहानि । यथाह प्रचेताः - 'अनृतुमतीं ब्राह्मणीं हत्वा कृच्छ्राब्दं षण्मासान्वेति । क्षत्रियां हत्वा षण्मासान्मासत्रयं वेति । वैश्यां हत्वा मासत्रयं सार्धमासं वेति । शूद्रां हत्वा सार्धमा सार्धद्वाविंशत्यहानि वा इति ॥ यत्तु हारीतेन पद्धर्षाणि राजन्ये प्राकृतं ब्रह्मचर्यं त्रीणि वैश्ये सार्धं शूद्र इति प्रतिपाद्योक्तं 'क्षत्रियवद्राह्मणीषु वैश्यव - क्षत्रियायां शूद्रवद्वैश्यायां शूद्रां हत्वा नवमासानू' इत्युक्तं तदपि कर्मसाधन
१ व्यापादितास्तदा ङ.
For Private And Personal Use Only
-