________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
मानवेऽभिधानात् । दानतपसोश्च शक्त्यपेक्षया व्यवस्था । ईपद्वृत्तस्थयोस्तु विट्शूद्रयोः (११२६)–'तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥' इति मनूक्तं द्रष्टव्यम् । वृत्तस्थे क्षत्रिये तु सार्धचतुर्वार्षिकं कल्प्यम् । वृत्तशब्देन चात्र गुणादिकमुच्यते । 'गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्तनं हितानां च तत्सर्वं वृत्तमुच्यते ॥' इति मनुस्मरणात् । यत्तु वृद्धहारीतवचनम्-'ब्राह्मणः क्षत्रियं हत्वा षड्वर्षाणि व्रतं चरेत् । वैश्यं हत्वा चरेदेवं व्रतं त्रैवार्षिक द्विजाः ॥ शूद्रं हत्वा चरेद्वर्ष वृषभैकादशाश्च गाः ॥' इति तत्कामकारविषयम् ॥ श्रोत्रियक्षत्रियादिवधे तु'तुरीयोनं क्षत्रियस्य वधे ब्रह्महणि व्रतम् । अर्ध वैश्यवधे कुर्यात्तुरीयं वृपलस्य तु ॥' इति वृद्धहारीतोक्तं द्रष्टव्यम् । यत्तु वसिष्ठवचनम्-'ब्राह्मणो राजन्यं हत्वाष्टौ वर्षाणि व्रतं चरेत् षट् वैश्यं त्रीणि शूद्रम्' इति तदपि हारीतीयेन समानविषयम् । क्षत्रिये स्वीषद्गुणन्यून इत्येतावान् विशेषः । यदा तु श्रोत्रियो वृत्तस्थश्च भवति तदा पूर्वयोर्वर्णयोर्यो वेदाध्यायिनं हत्वे'त्यापस्तम्बोक्तं द्वादशवार्षिकं द्रष्टव्यम् । प्रारब्धयागे त्वश्रोत्रिये क्षत्रियादौ व्यापादिते 'यागस्थक्षत्रविद्याती चरेब्रह्महणि व्रतम्' इति द्रष्टव्यम् । श्रोत्रिये पुनर्यागस्थे क्षत्रियादौ ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृपभैकसहस्राश्च गा दद्यात्, वैश्यवधे त्रिवार्षिकमृषभैकशताश्च गा दद्यात् , शूद्ववधे सांवत्सरिकमृषभैकादशाश्व गा दद्यादिति गौतमोक्तो दानतपसोः समुच्चयो द्रष्टव्यः । एतच्चामतिपूर्व विषयम् । पूर्ववदमतिपूर्वं चतुषु वर्णेषु प्रमाप्य द्वादश षट् त्रीन् संवत्सरं च व्रतान्यादिशेत् तेषामन्ते गोसहस्रं च ततोऽधं तस्यार्धमधं च दद्यात् सर्वेषामानुपूयेणेति शङ्खस्मरणात्। इदं च द्वादशवार्षिकं गौतमीयविषयमेव किंचिन्यूनगुणे क्षत्रिये गुणाधिकयोवैश्यशूद्वयोश्च द्रष्टव्यम् । स्त्रीशूद्रविदक्षत्रवध इत्युपपातकमध्ये विशेषत एव पठितत्वेनोत्सर्गापवादन्यायगोचरत्वाभावादुपपातकसामान्यप्राप्तान्यपि प्रायश्चित्तान्यत्र योजनीयानि । तत्र दुर्वृत्तक्षत्रियादौ कामतो व्यापादिते मानवं त्रैमासिकं त्रैवार्षिकं द्वैमासिकं चान्द्रायणं च वर्णक्रमेण योज्यम् । अकामतस्तु योगीश्वरोक्तं त्रिरात्रोपवाससहितमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासिक च पयोव्रतं यथाक्रमेण योज्यम् । एतच्च प्रागुक्तं व्रतजातं ब्राह्मणकर्तृके क्षत्रियादिवधे द्रष्टव्यम् । (११११२७)-'अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः। तथा ब्राह्मणराजन्यवधे षड्वार्षिकं तथा । ब्राह्मणः क्षत्रियं हत्वे' त्यादिषु मनुगौतमहारीतवसिष्टवाक्येषु ब्राह्मणग्रहणात्क्षत्रियादिकर्तृके तु क्षत्रियादिवधे पादन्यूनं द्रष्टव्यम् ।-'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धमेकपादस्तु शूद्रजातिषु शस्यते ॥' इति वृद्धविष्णुस्मरणात् । 'यत्तु पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता। वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच्च व्रतं स्मृतम्॥' इत्यङ्गिरोवचनं तत्प्रातिलोम्येन वाग्दण्डपारुष्यविषयमित्युक्तं गोवधप्रकरणे। मूर्धा
१ बृहद्धारीतोक्तं ङ.
For Private And Personal Use Only