________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
हंसश्येन कपिव्याज्जलस्थलशिखण्डिनः ।
भासं च हत्वा दद्याद्गामक्रव्यादस्तु वत्सिकाम् || २७२ ॥ किंच । क्रव्यमपक्कं मांसमत्तीति क्रव्याद्व्याघ्रसृगालादिर्मृगविशेषः वानरसाह - चर्यात् । तथा हंसश्येनसमभिव्याहारात्कङ्कगृधादिः पक्षिविशेषश्च गृह्यते । जलशब्देन जलचरा बकादयो गृह्यन्ते । स्थलशब्देन स्थलचरा बेलाकादयः । शिखण्डी मयूरः । भासः पक्षिविशेषः । शेषाः प्रसिद्धाः । एषां प्रत्येकं वधे गामेकां दद्यात् । अक्रव्यादस्तु हरिणादिमृगान् खञ्जरीटादिपक्षिविशेषान्हत्वा वत्सतरीं दद्यात् । तथाच मनुः ( ११।१३५ - १३७ ) - ' हत्वा हंसं बलाकां च बकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद्राह्मणाय गाम् ॥ क्रव्यादस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादो वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥' इति ॥ २७२ ॥ उरगेष्वयसो दण्डः पण्डके त्रपु सीसकम् ।
कोले घृतघटो देय उष्ट्रे गुञ्जा हयें शुकम् ।। २७३ ।।
४३५
किंच | सरीसृपेषु व्यापादितेषु भयोमयो दण्डस्तीक्ष्णप्रान्तो देयः । पण्डके नपुंसके व्यापादिते त्रपु सीसकं च माषपरिमितं दद्यात् पलालभारं वा । 'पण्डकं इत्वा पलालभारं त्रपु सीककं वा दद्यात्' इति स्मृत्यन्तरदर्शनात् । यद्यपि 'पण्डको लिङ्गहीनः स्यात्संस्कारार्हश्च नैव सः' इति देवलवचनेन सामान्येनैव स्त्रीपुंलिङ्गरहितो निर्दिष्टस्तथापि न गोब्राह्मणरूपस्येह विवक्षा । गोब्राह्मणवधनिषेधस्य जात्यवच्छेदेन प्रवृत्तेः लिङ्गविरहिणि च पण्डे जातिसमवायाविशेषात्तनिमित्तमेव लघुप्रायश्चित्तमुक्तम् । तस्मान्मृगपक्षिण एव विवक्षिताः । मृगपक्षिसमभिव्याहाराच्च । कोले सूकरे व्यापादिते घृतकुम्भो देयः । उष्ट्रे गुञ्जा देया । वाजिनि विनिपातितेंऽशुकं वस्त्रं देयम् । तथाच मनुः ( ११३१३३ ) - ' काष्णीयसीं दद्यात्सर्प हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैव माषकम् ॥' इति ॥ २७३ ॥
तित्तिरौ तु तिलद्रोणं गजादीनामशक्रुवन् ।
दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये ॥ २७४ ॥
किंच । तित्तिरौ पतत्रिणि व्यापादिते तिलद्रोणं दद्यात् । द्रोणशब्दश्च परिमाणविशेषवचनः । 'अष्टमुष्टि भवेत्किंचित्किंचिदष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकीर्तितः ॥ चतुराढको भवेद्रोण इत्येतन्मानलक्षणम् ॥' इति स्मरणात् ॥ पूर्वोक्तानां गजादीनां व्यापादने निर्धनत्वेन नीलवृषपञ्चकादिदानं कर्तुमशक्नुवन् प्रत्येकं कृच्छ्रं चरेद्विशुद्ध्यर्थम् । कृच्छ्रशब्दश्चात्र लक्षणया क्लेशसाध्ये तपोमात्रे द्रष्टव्यः । तपांसि च गौतमेन दर्शितानि - 'संवत्सरः
मासाश्चत्वारस्यो द्वावेकश्चतुर्विंशत्यहो द्वादशाहः षडहरुयहोऽहोरात्र इति कालः । एतान्येवानादेशे विकल्पेन क्रियेरन्नेनसि गुरुणि गुरूणि लघुनि लघूनि'
१ बकादयः ख.
For Private And Personal Use Only