________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३०
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
येत्पूता भवतीति विज्ञायत' इति । एवं वैश्यो राजन्यां शूद्रश्च राजन्यावैश्ययोरिति । पूता भवतीति वचनाद्राजवीथिपरिवाजनमेव दण्डरूपं प्रायश्चित्तान्तरनिरपेक्षं शुद्धिसाधनमिति दर्शयति ॥
1
ब्राह्मण्याः प्रातिलोम्येन द्विजातिव्यवाये प्रायश्चित्तान्तरमप्युक्तं संवर्तेन'ब्राह्मण्यकामा गच्छेच्चेत्क्षत्रियं वैश्यमेव वा । गोमूत्रयावकैर्मासात्तदर्धाच्च विशुध्यति ॥' इति । कामतस्तु तद्विगुणं कर्तव्यम् । 'कामात्तद्विगुणं भवेत्' इति वचनात् । षटूत्रिंशन्मतेऽपि 'ब्राह्मणी क्षत्रियवैश्यसेवायामतिकृच्छ्रं कृच्छ्रातिकृच्छ्रौ चरेत् । क्षत्रिययोषित् ब्राह्मणराजन्य वैश्यसेवायां कृच्छ्रार्धं प्राजापत्यमतिकृच्छ्रम् । वैश्ययोषिद्ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादं कृच्छ्रार्धं प्राजापत्यम् । शूद्रायाः शुद्धसेवने प्राजापत्यम् । ब्राह्मणराजन्यवैश्यसेवायां त्वहोरात्रं त्रिरात्रं कृच्छ्रार्धम्' इति । शुद्धसेवायां तु विशेषो बृहत्प्रचेतसोक्तः - 'विप्रा शूद्रेण संपृक्ता न चेत्तस्मात्प्रसूयते । प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥' एतदनिच्छन्त्यां स्वपतिभ्रान्त्या वा वेदितव्यम् । ' चान्द्रायणे द्वे कृच्छ्रश्च विप्राया वैश्यसेवने । कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रिय संगमे ॥ क्षत्रिया शूद संपर्के कृच्छ्रं चान्द्रायणद्वयम् । चान्द्रायणं सकृच्छ्रं तु चरेद्वैश्येन संगता ॥ शूद्रं गत्वा चरेद्वैश्या कृच्छ्रं चान्द्रायणोत्तरम् । अनुलोम्ये प्रकुर्वीत कृच्छ्रं पादावरोपितम् ॥' इति । प्रजातायास्तु चतुर्विंशतिमते विशेष उक्तः - - 'विप्रगर्भे पराकः स्यात्क्षत्रियस्य तथैन्दवम् । ऐन्दवश्च पराकश्च वैश्यस्याकामकारतः ॥ शूद्रगर्भे भवेत्त्यागाण्डाल जायते यतः । गर्भस्रावे धातुदोषैश्वरेच्चान्द्रायणत्रयम् ॥' इति । अकामकारत इति विशेषणोपादानात् कामकारे पुनः पराकादिकं द्विगुणं कुर्यात् । यदा त्वनिःसृतगर्भैव दशमासं स्थित्वा प्रजायते तदा प्रायश्चित्ताभावः । ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ इति वसिष्ठस्मरणात् । यदा स्वाहितगर्भैव पश्चाच्छूद्रादिभिर्व्यभिचरति तदा गर्भपातशङ्कया प्रसवोत्तरकालएव प्रायश्चित्तं कुर्यात् । ' अन्तर्वत्री तु या नारी समेताक्रम्य कामिना । प्रायश्चित्तं न कुर्यात्सा यावद्गर्भो न निःसृतः ॥ जाते गर्भे व्रतं पश्चात्कुर्यान्मासं तु यावकम् । न गर्भदोषस्तस्यास्ति संस्कार्यः स यथाविधि ॥' इति स्मृत्यन्तरदर्शनात् । यदा स्वौद्धत्यात्प्रायश्चित्तं न कुर्वन्ति तदा नार्याः कर्णादिकर्तनमिति द्रष्टव्यम् ॥ अन्त्यजादिगमनेऽपि स्त्रीणां स्मृत्यन्तरे प्रायश्चित्तं दर्शितम्- 'रजकव्याधशैलूषवेणुचर्मोपजीविनः । ब्राह्मण्येतान्यदा गच्छेदेकामादैन्दवत्रयम् ॥' इति । तथा चाण्डाल्याद्यन्त्यजागमनेऽपि - 'चाण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा । ब्राह्मण्यकामतो गत्वा चान्द्रायणचतुष्टयम् ॥' इति । अकामत इति वचनात्कामतो द्विगुणं कल्प्यम् । तथा'चाण्डालेन तु संपर्क यदि गच्छेत्कथंचन । सशिखं वपनं कुर्याद्भुञ्जीयाद्यावकौदनम् ॥ त्रिरात्रमुपवासः स्यादेकरात्रं जले वसेत् । आत्मना संमिते कूपे गोम
१ वैश्यसंग ङ. २ दामादैन्दवद्वयमिति पाठान्तरम्. ३ संमिते कर्षे ङ.
*
For Private And Personal Use Only