________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५]
मिताक्षरासहिता।
४२९
हान्यान्यवर्णासु गच्छतः सार्ववर्णिकम् ॥' इति । द्वादशवार्षिकातिदेशकं तत्स्व. भार्याभ्रान्त्या गच्छतो वेदितव्यम् । मोहादिति विशेषणोपादानात् । यत्तु संवर्तवचनम्- 'कथंचिद्राह्मणी गच्छेत्क्षत्रियो वैश्य एव वा । कृच्छ्रे सान्तपनं वा स्यात्प्रायश्चित्तं विशुद्धये ॥ शूद्रस्तु ब्राह्मणी गच्छेत्कथंचित्काममोहितः । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥' इति, तदत्यन्तव्यभिचरितब्राह्मणीविषयम् । अन्त्यजागमनेऽपि प्रायश्चित्तं बृहत्संवर्तेनोक्तम्-'रजकव्याधशैलूषवेणुचर्मोपजीविनाम् । एतास्तु ब्राह्मणो गत्वा चरेच्चान्द्रायणद्वयम् ॥' इति । इदं ब्राह्मणस्य कामतः सकृद्गमनविषयम् । क्षत्रियादीनां तु पादपादहीनं कल्प्यम् । अत्रैवापस्तम्बेनोक्तम्-'म्लेच्छी नटी चर्मकारी रजकी वरुडी तथा । एतासु गमनं कृत्वा चरेच्चान्द्रायणद्वयम् ॥' इति । अन्त्यजाश्च तेनैव दर्शिताः--'रजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥' इति । ये तु चाण्डालादयोऽन्त्यावसायिनस्तत्स्त्रीगमने गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शितम् । एतासां चान्त्यजस्त्रीणां मध्ये यदेकस्यां व्यवाये प्रायश्चित्तं अभिहितं तत्सर्वासु भवति । सर्वासां सदृशत्वात् । यथाहोशना-'बहूनामेकधर्माणामेकस्यापि यदुच्यते । सर्वेषां तद्भवेत्कार्यमेकरूपा हि ते स्मृताः ॥' इति । अकामतस्तु गमने-'चण्डालमेदश्वपचकपा. लव्रतचारिणाम् । अकामतः स्त्रियो गत्वा पराकवतमाचरेत् ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । यच्च संवर्तवचनम्-'रजकव्याधशैलूषवेणुचर्मोपजीविनाम् । स्त्रियो विप्रो यदा गच्छेरकृच्छ्रे चान्द्रायणं चरेत् ॥' इति तदप्यकामविषयम्। यत्तु शातातपेनोक्तम्-'कैवर्ती रजकीं चैव वेणुचर्मोपजीविनीम् । प्राजापत्यविधानेन कृच्छ्रेणैकेन शुद्ध्यति ॥' इति, तद्रेतःसेकात्यानिवृत्तिविषयम् । यत्तूशनसोक्तम्-'कपालिकानभोक्तृणां तन्नारीगामिनां तथा । ज्ञानात्कृच्छ्राब्दमु. द्दिष्टमज्ञानादैन्दवद्वयम् ॥' इति, तदभ्यासविषम् । यदा तु चाण्डाल्यादिषु गच्छतो गर्भो भवति तदा 'चाण्डाल्यां गर्भमारोप्य गुरुतल्पव्रतं चरेत्' इत्युशनसोक्तं द्वादशवार्षिकं द्रष्टव्यम् । यत्तु 'अन्त्यजायां प्रसूतस्य निष्कृतिर्न विधीयते । निर्वासनं कृताङ्कस्य तस्य कार्यमसंशयम् ॥' इत्यापस्तम्बवचनं तत्कामकारविषयम् । स्त्रीणामपि सवर्णानुलोमव्यवाये यत्पुरुषस्योकं त्रैवार्षिकादि तदेव भवति । (मनुः ११११७६)-'यापुंसः परदारेषु तच्चैनां चारयेद्रतम् ॥' इति मनुस्मरणात् । प्रातिलोम्येन व्यवाये एव परस्त्रीपुंसयोः प्रायश्चित्तभेदः । यथाह वसिष्ठः-'शूद्रश्चेद्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरमारोप्य महापथमनुव्राजयेत्पूता भवतीति विज्ञायते' इति । तथा—'वैश्यश्चेद्राह्मणीमभिगच्छेल्लो. हितदभैंर्वेष्टयित्वा वैश्यमग्नौ प्रास्येद्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा. भ्यज्य नग्न खरमारोप्य महापथमनुव्राजयेत्पूता भवतीति विज्ञायते' इति । तथा 'राजन्यश्चेद्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाभ्यज्य नमां गौरखरमारोप्य महापथमनुसंवाज१ वुरुडी तथा ङ. २ 'दैन्दवं स्मृतम्' ख.
For Private And Personal Use Only