________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
गमने मानवं त्रैमानिकम् । जातिमात्रक्षत्रियादिस्त्रीषु पुनरस्मिन्नेव विषये तदीयान्येव द्वैमासिकचान्द्रायणमासिकानि योजनीयानि । क्षत्रियादीनां च क्षत्रियादिस्त्रीषु द्वैमासिकादीन्येव । अकामतः पुनरेतासु त्रैवर्णिकानां याज्ञवल्क्यमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासं प्राजापत्याचरणं च क्रमेण द्रष्टव्यम् । शूद्रागमने तु कामतो विहितं मासवतमेवार्धक्लल्या योजनीयम् । अतएव संवर्त:--'शूदां तु ब्राह्मणो गत्वा मासं मासार्धमेव वा । गोमूत्रयावकाहारस्तिष्ठेत्तत्पापमुक्तये ॥' इति । अकामतोऽर्धमासिकमित्यभिप्रेतम् । ब्राह्मणश्चेदं प्रेक्षापूर्वकं ब्राह्मणदारानभिगच्छेत्तन्निवृत्तधर्मकर्मणः कृच्छ्रोऽनिवृत्तधर्मकर्मणो. ऽतिकृच्छ्र इति तद्राह्मणभार्यायां शूद्रायां द्रष्टव्यम् । द्विजातिस्त्रीषु वा विनोढासु द्विस्त्रिय॑भिचरितासु अबुद्धि पूर्वगमने वा । तथाच संवर्त:--'विप्रामस्वजनां गत्वा प्राजापत्यं समाचरेत्' इति । कामतस्तु-'राज्ञी प्रव्रजितां धात्री साध्वीं वर्णोत्तमामपि । कृच्छ्रद्वयं प्रकुर्वीत सगोत्रामभिगम्य च ॥' इति यमोक्तं कृच्छ्रद्वयं द्रष्टव्यम् । चतुराद्यम्यासे तु व्यभिचारस्य स्वैरिण्यां वृषल्यामवकीर्णः सचैल स्नात उदकुम्भं दद्याद्राह्मणाय । वैश्यायां च चतुर्थकालाहारो ब्राह्मणान्भो. जयेद्यवसभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रोपोषितो घृतपानं दद्यात् । ब्राह्मण्यां पात्रोपोषितो गां दद्यागोष्ववकीर्णः प्राजापत्यं चरेत् । अनूढायामवकीर्णः पलालभरं सीसमाषकं च दद्यात् इति शङ्खोक्तं वेदितव्यम् । चतुराद्यभ्यासविषयत्वं चास्य 'चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी मता' इति स्मृत्यन्तरादवगम्यते । अत्रैव विषये षट्त्रिंशन्मतेऽप्युक्तम्-'ब्राह्मणी बन्धकीं गत्वा किंचिद्दद्याविजातये । राजन्यां चेद्धनुर्दद्याद्वैश्यां गत्वा तु चैलकम् ॥ शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये । दिवसोपोषितो वा स्थाद्दद्याद्विप्राय भोजनम् ॥' इति (अनुलोमव्यवाये गर्भे द्विगुणं, यदि सा अतिदूषिता न प्रतिलो. मगा भवति तदैव । अन्यजातिगमने द्वैगुण्यं, प्रतिलोमदूषितासु भन्त्यावसा. यिस्त्रीषु च चाण्डालीगर्भे यथा गुरुतल्पव्रतं तथा किंचिम्यूनं तारतम्यं कल्प्यम् । चाण्डालीगमने वार्षिकम् । गर्भे गुरुतल्पत्वं तथैव ज्ञेयम् ।) इदं प्रायश्चित्तजातं गर्भानुत्पत्तिविषयम् । तदुत्पत्तौ तु यद्विशेषेण यत्प्रायश्चित्तमुक्तं तदेव तत्र द्विगुणं कुर्यात् । -'गमने तु व्रतं यत्स्याद्गर्भ तद्विगुणं चरेत्' इत्युशनःस्मरणात् । शूद्यां गर्भमादधतश्चतुर्विंशतिमते विशेष उक्त:-'वृषल्यामभिजातस्तु त्रीणि वर्षाणि चतुर्थकालसमये नक्तं भुजीत' इति । यत्तु मनुवचनम् (३॥ १७)-शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥' इति, तत्पापगौरवख्यापनपरम् । प्रातिलोम्य. व्यवाये तु सर्वत्र पुरुषस्य वध एव–'प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम्' इति वचनात् ।। यत्तु वृद्धप्रचेतोवचनम--'शुद्धस्य ब्राह्मणी मोहाद्च्छतः शुद्धिमिच्छतः। पूर्णमेतद्रतं देयं माता यस्माद्धि तस्य सा ॥ पाद.
१ त्रैवार्षिकाणां ख. २ तिष्ठेत्तत्पापमोक्षकः इति ङ. ३ भार्यायां द्रष्टव्यम् ङ. ४ धनुरन्तः पातीभागो ङ. पुस्तके नास्ति.
For Private And Personal Use Only