________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
•
समानम् । एकयोगनिर्देशात् । यथाह गौतमः - 'परिवित्तिपरिवेत्तृपर्याहितपर्याधात्रग्रेदिधिपूदिधिषूपतीनां संवत्सरं प्राकृतं ब्रह्मचर्यम्' इति । अतएव वसिनाग्रेदिधिषूपत्यादाविदमेव प्रायश्चित्तमुक्तम् 'अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत । दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्तां पुनर्निविशेत' इति । अग्रेदिधिष्वादेर्लक्षणं स्मृत्यन्तरेऽभिहितम् — 'ज्येष्ठायां यद्यनूढायां कन्यायामूह्यतेऽनुजा । या साग्रेदिधिषूज्ञेया पूर्वा तु दिधिषूः स्मृता ॥' इति । तत्राग्रेदिधिषूपतिः प्राजापत्यं कृत्वा तामेव ज्येष्ठां पश्चादन्येनोदामुद्वहेत् । दिधिषूपतिस्तु कृच्छ्रातिकृच्छ्रौ कृत्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्वविवोढे दत्त्वाऽन्यामुद्दहेदिति परिवेदनम् । तथा भृतकाध्यापकभृतकाध्यापितयोश्च पयसा ब्रह्मसुवर्चलां पिवेदित्यधिकृत्य विष्णुनोक्तम्'भृताध्यापनं कृत्वा भृतकाध्यापितस्तथा । अनुयोगप्रदानेन त्रीन्पक्षान्नियतः पिबेत् ॥' इति । उत्कर्ष हेतोरधीयानस्य किं पठसि नाशितं त्वयेत्येवं पर्यनुयोगोऽनुयोगप्रदानम् । अतएव स्मृत्यन्तरे - 'दत्तानुयोगानध्येतुः पतितान्मनुरब्रवीत्' इत्युक्तम् । अत्रापि पूर्वोक्तव्रतैः सहास्य शक्त्यपेक्षया विकल्पः । इति भृतकाध्यापकभृतकाध्यापितप्रकरणम् ॥
४२७
तथा पारदार्येऽप्युपपातकसामान्यप्राप्तमानवत्रैमासिकस्य याज्ञवल्क्यव्रतचतुष्टयस्यापि गुरुदारादावपवाद उक्तः । तथान्यत्रापि गौतमादिभिः पारदार्यविशेषेणापवाद उक्तः । यथाह गौतमः - 'द्वे परदारे त्रीणि श्रोत्रियस्य' इति । तथा वार्षिकं प्राकृतं ब्रह्मचर्यं प्रस्तुत्य तेनैवेदमभिहितम् 'उपपातकेषु चैवम्' इति । तत्रेयं व्यवस्था — ऋतुकाले कामतो जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यं । तस्मिन्नेव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम् । तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यम् । यद्वा श्रोत्रियपत्यां गुणवत्यां ब्राह्मण्यां त्रैवार्षिकम् । तादृग्विधायामेव क्षत्रियायां द्वैवार्षिकम् । तादृश्यामेव वैश्यायां वार्षिकमिति व्यवस्था । एतत्समानदृष्ट्या शूद्रायां षाण्मासिकं प्राकृतं ब्रह्मचर्य कल्पनीयम् । अतएव शङ्खन वैश्यामवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत्क्षत्रियायां द्वे वर्षे त्रीणि ब्राह्मण्यां वैश्यायां शूद्रायां ब्राह्मणपरिणीतायामिति वर्णक्रमेण ह्रासो दर्शितः । एवं क्षत्रियस्यापि क्षत्रियादिस्त्रीषु क्रमेण द्विवार्षिके कवार्षिके कषाण्मासिकानि पूर्वोक्त एव विषये योजनीयानि । वैश्यस्य च वैश्याशूयोर्वार्षिकषाण्मासिके । शूद्रस्य शूद्र्यां परभार्यायां षाण्मासिकमेव । यत्त्वापस्तम्बीयम् - 'सवर्णायामनन्यपूर्वायां सकृत्संनिपाते पादः पतत्येवमभ्यासे पादः पादश्चतुर्थे सर्व' मिति गौतमीय त्रिवार्षिकेण समानविषयम् । अनन्यपूर्विकायां तु चतुरभ्यासे द्वादशवार्षिकप्रायश्चित्तविधानादेकस्यामेव गमनाभ्यासे नेदं प्रायश्चित्तं किंतु प्रतिगमनं पादन्यूनं कल्प्यम् । एतत्सर्व कामकारविषयम् । अकामतः पुनरेतदेवार्धकृत्या पूर्वोक्तविषये योजनीयम् । अनृतुकाले तु जातिमात्रब्राह्मण्यां कामतो १ अधीयानस्य नाशितं ख. २ मवकीर्णी ङ. ३ दिवार्षिकवार्षिक षाण्मासिकानि ख.
या० ३९
For Private And Personal Use Only