________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४२५
दण्डविधानाञ्च । एतच्च क्षत्रियादिद्रव्यापहारे द्रष्टव्यम् । (ब्राह्मसंबन्धिदव्याप. हारे तु (मनुः १११५७)–'निक्षेपस्यापहरणे नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥' इति द्रष्टव्यम्)। तथा (मनुः ११११६४)
-'द्रव्याणामल्पसागणां स्तेयं कृत्वान्यवेश्मतः । चरेत्सान्तपनं कृच्छ्रे तन्निर्यात्यात्मशुद्धये ॥' इत्यनेनाल्पप्रयोजनत्रपुसीसादिद्रव्यापहार विशेषेण स्तेयसामान्योपपातकप्रायश्चित्तापवादः । इदं च चान्द्रायणनिमित्तभूतार्धतृतीयशतमूल्यस्य पञ्चदशांशार्धनपुसीसाद्यपहारे प्रायश्चित्तम् । चान्द्रायणपञ्चदशांशत्वात्तस्य । तथा द्रव्यविशेषेणाप्युपपातकसामान्यप्राप्तव्रतापवादः (मनुः ११११६५)'भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥' इति । एकवारभोजनपर्याप्तभक्षभोज्यापहार इदम् । द्वित्रिवारभोजनपप्तिाहारे त्रिरात्रम् । यथाह पैठीनसिः-'भक्ष्यभोज्यानस्योदरपूरणमात्रहरणे त्रिरानमेकरात्रं वा पञ्चगव्याहारश्च' इति ॥ यानादीनामप्येतत्साहचर्यादेतावन्मूल्यानामेवापहरणे एतत्प्रायश्चित्तम् । सर्वत्रापि ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्तस्यापि लघुगुरुभावः कल्पनीयः । तथा (मनुः ११११६६)-'तृणकाष्ठदुमाणां च शुष्कान्नस्य गुडस्य च । तैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥' इति । एषां च तृणादीनां भक्ष्यादित्रिगुणत्रिरात्रप्रायश्चित्तस्य दर्शनात् तत्रिगुणमूल्यार्घाणामेतत्प्रायश्चित्तम् । तथा (मनुः ११११६७)-'मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयस्कांस्योपलानां च द्वादशाहं कैदन्नता ॥' इति । अत्रापि भक्ष्यादिवत् द्वादशगुणप्रायश्चित्तदर्शनात् तन्मूल्यद्वादशगुणमूल्यमणिमुक्ताद्यपहार एतत्प्रायश्चित्तं द्रष्टव्यम् । तथा (मनुः ११११६८)-कापसकीटजौर्णानां द्विखुरकखुरस्य च । पक्षिगन्धौषधीनां च रज्वाश्चैवं व्यहं पयः॥' इति । अत्रापि भक्ष्यादित्रिगुणप्रायश्चित्तदर्शनात्तत्रिगुणमूल्यानामपहार एवैतत्प्रायश्चित्तं ज्ञेयम् । ह्रियमाणद्व्यन्यूनाधिकभावेन प्रायश्चित्ताल्पत्वमहत्त्वं कल्प्यमेव । इदं च स्तेयप्रायश्चित्तमपहृतद्रव्यदानोत्तरकालमेव द्रष्टव्यम् । यथाह विष्णुः'दत्त्वैवापहृतं द्रव्यं स्वामिने व्रतमाचरेत्' इति । इति स्तेयम् ॥ ऋणापाकरणे च 'पुत्रपौत्रैर्ऋणं देयम्' इति विहितं तस्यानपाकरणे, तथा वैदिकस्य च 'जायमानो वै ब्राह्मणः' इत्येतद्वाक्येनर्णसंस्तुतयज्ञादिकरणे च 'उपपातकशुद्धिः स्यादेवम्' इत्यादिनोपपातकसामान्यविहितं व्रतचतुष्टयं शक्त्यपेक्षया योज्यम्। प्रायश्चित्तान्तरमप्यत्र मनुनोक्तम् (११।२७)-'इष्टिं वैश्वानरी चैव निर्वपेदब्दपर्यये । लुप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥' इति । अब्दपर्यये संवत्सरान्ते। इति ऋणानपाकरणम् ।
तथाधिकृतस्यानाहिताग्नित्वेऽप्येतदेव व्रतचतुष्टयं वत्सरादूर्ध्वमापदि शक्त्यपेक्षया योज्यम् । अनापदि तु मानवं त्रैमासिकम् । अर्वाक्पुनर्वसरात् कामजिनिर्विशेषमाह-काले स्वाधाय कर्माणि कुर्याद्विप्रो विधानतः । तदकुर्वस्त्रिरात्रेण मासि मासि विशुख्यति ॥ अनाहिताप्नौ पित्रादौ यक्ष्यमाणः सुतो १ धनुश्चिह्वान्तर्गतो भागो ङ. पुस्तके नास्ति. २ Cणामेव ङ. ३ कणानता ङ. ४ कमानां ऊ
-
-
For Private And Personal Use Only