________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः (११११९१)-'येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्वारयित्वा श्रीकृच्छ्रान्यथाविध्युपनाययेत् ॥' इति, यच्च यमेनोक्तम्-'सावित्री पतिता यस्य दशवर्षाणि पञ्च च । सशिखं वपनं कृत्वा व्रतं कुयात्समाहितः ॥ एकविं. शतिरानं च पिबेत्प्रसूतियावकम् । हविषा भोजयेच्चैव ब्राह्मणान्सप्त पञ्च वा ॥ ततो यावकशुद्धस्य तस्योपनयनं स्मृतम् ॥' इति, तदुभयमपि याज्ञवल्क्यीयमासपयोव्रतविषयम् । यत्तु वसिष्ठेनोक्तम्- 'पतितसावित्रीक उद्दालकव्रतं चरेत् द्वौ मासौ यावकेन वर्तयेन्मासं पयसा पक्षमामिक्षयाऽष्ट रात्रं घृतेन षडात्रमयाचितेन त्रिरात्रमब्भक्षोऽहोरात्रमुग्वसेदश्वमेधावभृथं गच्छेद्रात्यस्तोमेन वा यजेत' इति । अत्रेयं व्यवस्था-यस्योपनेत्राद्यभावेन तत्कालातिक्रमस्तस्य याज्ञवल्क्यीयव्रतानामन्यतमं शक्त्यपेक्षया भवति । अनापद्यतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदशवर्षादूर्ध्वमपि कियत्कालातिक्रमे तूहालकवतं व्रात्यस्तोमो वेति । येषां तु पित्रादयोऽप्यनुपनीतास्तेषामापस्तम्बोक्तम्-'यस्य पितापितामहावनुपेतौ स्यातां तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्यम् । यस्य प्रपितामहादेर्नानुसर्यत उपनयनं तस्य द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यम्' इति व्रात्यता ॥ तथा स्तेयेऽप्युपपातकसाधारणप्राप्तवतचतुष्टयापवादकं प्रायश्चित्तं मनुनोक्तम् (११।१६२)-'धान्यान्नधनचौर्याणि कृत्वा कामाद्विजोत्तमः । सजातीयगृहादेव कृच्छ्रार्धेन विशुध्यति ॥' इति । द्विजोत्तमस्य सजातीयो ब्राह्मण एवातो विप्रपरिग्रहे ब्राह्मणस्य हर्तुरिदम् । क्षत्रियादेस्वल्पं कल्प्यम् । अथाटापाद्यं स्तेयकिल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां प्रतिवर्ण विदुषोऽतिक्रमे द. ण्डभूयस्त्वम्' इति क्षत्रियादेरपहर्तुर्दण्डाल्पत्वस्य दर्शनात् । तथा--'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम्' इति पादपादहान्या प्रायश्चित्तदर्शनात् । तथा क्षत्रियादिपरिग्रहेणापि दण्डानुसारेण प्रायश्चित्ताल्पत्वं कल्प्यम् । अतः क्षत्रियपरिग्रहे चौर्ये पाण्मासिकम् । वैश्यापरिग्रहे त्रैमासिकं गोवधव्रतम् । शूद्रापरिग्रहे चान्द्रायणं कल्प्यम् । एवमुत्तरत्राप्यूहनीयम् । इदं च दशकुम्भधान्यापहारविषयम् । अधिके तु-'धान्यं दशभ्यः कुम्भेभ्यो हरैतो दम उत्तमः । पलसहसादधिके वधः' इति वधदर्शनात् । कुम्भश्च पञ्च पहस्रपलपरिमाणः । धान्यसाहचर्यादनधने चेतावद्धान्यपरिमिते वेदितव्ये । अन्नशब्देन तन्दुलादिकमभिधीयते । धनशब्देन ताम्ररजतादिकम् । इदं तु प्रायश्चित्तं कामकारविषयम् । अकामतस्तु त्रैमासिकं गोवधव्रतम् । तथा-'मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृ. हस्य च । कूपवापीजलानां च शुद्धिश्चान्द्रायणेन तु ॥' इति । सार्धशतद्वयपणलभ्यजलापहार इदं चान्द्रायणं प्राप्तमपीतरगोवधवतनिवृत्त्यर्थ विधीयते ।'तावन्मूल्यजलापहारे पानीयस्य तृणस्य च । तन्मूल्याट्विगुणो दण्डः' इति पञ्च. शतदण्डविधानात्तावत्पणयोर्दण्डचान्द्रायणयोर्गोवधादौ सहचरितत्वात् । तथा 'कृच्छ्रातिकृच्छैन्दवयोः पणपञ्चशतं तथा' इति चान्द्रायणविषये पञ्चशतपण
१ यस्योपनयने आपद्भावेन ङ. २ कृच्छाब्देन विशुध्यतीति पाठान्तरम्. ३ अष्टपादं ङ, ४ हरतोऽभ्यघिको वधः ङ.
For Private And Personal Use Only