________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
प्रोक्ता पर्षद्वच्च व्रतं स्मृतम् ॥' इति, तत्प्रातिलोम्येन वाग्दण्डपारुष्यादिविषयम् । तथा स्त्रीबालवृद्धादीनां त्वर्ध, अनुपनीतस्य बालस्य पाद इति च प्रागुक्तमनुसंधेयम् ॥ स्त्रीणां पराशरेण विशेषोऽभिहितः -- ' वपनं नैव नारीणां नानुव्रज्या जपादिकम् । न गोष्ठे शयनं तासां न वसीरन्गवाजिनम् ॥ सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् । सर्वत्रैवं हि नारीणां शिरसो मुण्डनं स्मृतम् ॥' इति । पुरुषेषु च विशेषः संवर्तेन दर्शितः - 'पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च । त्रिपादे तु शिखावर्ज सशिखं तु निपातने ॥' इति । पादप्रायश्चित्तार्हस्य कण्ठादधस्तनाङ्गरोम्णामेव वपनम् । अर्धप्रायश्चित्तार्हस्य तु श्मश्रूणामपि । पादोनप्रायश्चित्तार्हस्य पुनः शिरोगतानामपि शिखावर्जितानाम् । पादचतुष्टयार्हस्य तु सशिखस्य सकलकेशजातस्येति । एवमेतद्दिगवलम्बने नान्येषामपि स्मृतिवचसां विषयो निरूपणीयः ॥ २६३ ॥ २६४ ॥
इति गोवधप्रायश्चित्तप्रकरणम् ।
अधुनान्येषामुपपातकानां प्रायश्चित्तमाह
उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणाथवा पुनः ।। २६५ ॥
४२३
एवमुक्तेन गोवधत्रतेन मासं पञ्चगव्याशनादिनान्येषां व्रात्यतादीनामुपपातकानां शुद्धिर्भवेत् । चान्द्रायणेन वा वक्ष्यमाणलक्षणेन मासं पयोव्रतेन वा पराकेण वा शुद्धिर्भवेत् । अत्रातिदेशसामर्थ्याद्गोचर्मवसनगो परिचर्यादिभिर्गोवधासाधारणैः कतिपयैन्यूनत्वमवगम्यते । एतञ्च व्रतचतुष्टयमकामकारे शक्त्यपेक्षया विकल्पितं द्रष्टव्यम् । कामकारे तु ( मनुः ११/११७ ) - ' एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । अवकीर्णिवर्जे शुद्ध्यर्थं चान्द्रायणमथापि वा ॥' इति मनूक्तं त्रैमासिकं द्रष्टव्यम् । अतएव वचनादयं प्रायश्चित्तातिदेशः सर्वेषामुपपातकगणपठितानामुक्तप्रायश्चित्तानामनुक्तप्रायश्चित्तानां चावकीर्णिवर्जितानामविशेषेन वेदितव्यः । अवकीर्णिनस्तु प्रतिपदोक्तमेव । नन्वनुक्तप्रायश्चित्तविषयतयैवातिदेशस्य युक्ता । इतरथा प्रतिपदोक्तप्रायश्चित्तबाधसापेक्षत्वप्रसङ्गात् । मैवम् । तथा सत्युक्तनिष्कृती नामुपपातकगणपाठोऽनर्थकः स्यात् । यदि परमुपपातकमध्ये सामान्यतः पठितस्यान्यत्र विशेषतः प्रायश्चित्तान्तरमुच्यते । यथा'भयाज्यानां च याजनं । त्रीन्कृच्छ्रानाचरेद्रात्ययाजकोऽविचरन्नपि ॥' इति स एव विषयः केवलं परिहियेत न पुनर्विशेषतः पठितस्यैवान्यत्रापि विशेषत एव यत्र प्रायश्चित्तमुच्यते सोऽपि यथा 'इन्धनार्थे द्रुमच्छेदः ' 'वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम्' इति । अतो व्रात्यतादिषु अस्मिन् शास्त्रे शास्त्रान्तरे वा दृष्टैः प्रायश्चित्तैः सह 'उपपातकशुद्धिः स्यादेवम्' इत्यादिना प्रतिपादितत्र तचतुष्टयस्य समविtearकल्पनेन विकल्पो विषयविभागो वाश्रयणीयः । तानि च स्मृत्यन्तरदृष्टप्रायश्चित्तानि पाठक्रमेण व्रात्यादिषु योजयिष्यामः । तत्र व्रात्यतायां मनुनेदमुक्तम्
For Private And Personal Use Only