________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः
---
तिष्ठेत्परशुं गृहीत्वा ॥ कुशैः काशैश्च बध्नीयात्स्थाने दोषविवर्जिते ॥' इति व्यासस्मरणात् ॥ तथान्योऽपि विशेषस्तेनैवोक्तः - ' घण्टाभरणदोषेण विपत्तिर्यन्त्र गोर्भवेत् । कृच्छ्रांर्धं तु भवेत्तत्र भूषणार्थं हि तत्स्मृतम् ॥ अंतिदाहेतिदमने संघाते चैव योजने । बद्धा शृङ्खलपाशैश्च मृते पादोनमाचरेत् ॥' इति ॥ पालना करणादिनोपेक्षयां कचित्प्रायश्चित्तविशेषस्तेनैवोक्तः, – ' जलौघपल्वले मम्मा मेघविद्यु
तापि वा । श्वभ्रे वा पतिताकस्माच्छापदेनापि भक्षिता ॥ प्राजापत्यं चरेत्कृच्छ्रं गोस्वामी व्रतमुत्तमम् । शीतवाताहता वा स्यादुद्बन्धनहतापि वा ॥ शून्यागार उपेक्षायां प्राजापत्यं विनिर्दिशेत् ॥' इति ॥ इदं तु कार्यान्तरविरहेऽप्युपेक्षायां वेदितव्यम् । कार्यान्तरव्यग्रतयोपेक्षायां त्वर्धम् - 'पल्वलौघमृगव्याघ्रश्वापदादिनिपातने । श्वभ्रप्रपातसर्पाद्यैर्मृते कृच्छ्रार्धमाचरेत् ॥ अपालत्वात्तु कृच्छ्रं स्याच्छून्यागार उपप्लवे ॥' इति विष्णुस्मरणात् ॥ तथा सत्यपि व्यापादने क्वचिदुपकारार्थप्रवृत्तौ वचनाद्दोषाभावः । यथाह संवर्तः - 'यन्त्रणे गोचिकित्सार्थे मूढगर्भविमोचने । यले कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इति । यत्रणं व्याघ्रौदिनिर्यातनार्थं संदेशाङ्कुशादिप्रवेशनम् । तथा— 'औषधं स्नेहमाहारं ।
1
ब्राह्मणे द्विजः । दीयमाने विपत्तिश्चेन्न स पापेन लिप्यते ॥ ग्रामघाते शरौघेण वेश्मभङ्गान्निपातने । दाहच्छेदशिराभेदप्रयोगैरुपकुर्वताम् ॥ द्विजानां गोहितार्थं च प्रायश्चित्तं न विद्यते ॥' अत्र पराशरोऽप्याह -- ' ग्रामघाते शरौघेण वेश्मभङ्गान्निपातने । अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥ ' इति । तथा कूपखाते च धर्मार्थे गृहदाहे च या मृता । ग्रामदाहे तथा घोरे प्रायश्चित्तं न विद्यते ॥' इति । इदं तु बन्धनरहितस्यैव पशोः कथंचिगृहादिदाहेन मृतविषयम् । इतरथा त्वापस्तम्बेनोक्तम्- 'कान्तारेष्वथ दुर्गेषु गृहदाहे खलेषु च । यदि तत्र विपत्तिः स्यात्पाद एको विधीयते ॥' इति । तथाऽस्थ्यादिभङ्गे मरणाभावेऽपि क्वचित्प्रायश्चित्तमुक्तम्- 'अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा । पाटनं दन्तशृङ्गाणां मासार्धं तु यवान्पिबेत् ॥' इति । यत्त्वा ङ्गिरसम्— 'शृङ्गदन्तास्थिभङ्गे वा चर्मनिर्मोचनेऽपि वा । दशरात्रं पिबेद्वज्रं स्वस्थापि यदि गौर्भवेत् ॥' इति वज्रशब्दवाच्यं क्षीरादिवर्तनमुक्तं तदशक्तविषयम् । इदं च प्रायश्चित्तं गोस्वामिने व्यापन्नगोसदृर्शी गां दत्वैव कार्यम् यदाह पराशरः - ' प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीद्यमः ॥' इति । मनुरपि ( ८/२८८ ) – 'यो यस्य हिंस्याद्द्रव्याणि ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच तत्समम् ॥' इति । एतत्तु पूर्वोक्तं प्रायश्चित्तजातं ब्राह्मणस्यैव हन्तुर्वेदितव्यम् । क्षत्रियादेस्तु हन्तुर्बृहद्विष्णुना विशेषोऽभिहितः - 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्ध पाद एकस्तु शूद्रजातिषु शस्यते ॥' इति । यत्त्वनिरोवचनम् - 'पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा
१ गोकृच्छ्रार्धं भवेत् ङ. २ अतिदोहा तिदमने ङ. ३ मृतापि वा ङ. ४ गूढगर्भ ङ. ५ व्याध्यादि ङ. ६ शृङ्गभङ्गेऽस्थिभङ्गे वा ङ.
For Private And Personal Use Only