________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः दिदुर्गतबहुकुटुम्बिब्राह्मणसंबन्धिनी कपिलां कर्माङ्गभूतां गर्मिणी बहुक्षीरतरुणिमादिगुणशालिनी निर्गुणो धनवान्सप्रयत्नं खगादिना व्यापादयति तदा गोसहस्रयुक्तं त्रैमासिकं कुर्यात् । ---'गर्भिणी कपिलां दोग्ध्री होमधेनुं च सुव्रताम् । खड्गादिना घातयित्वा द्विगुणं व्रतमाचरेत् ॥' इति विशिष्टायां गवि बाहस्पत्ये प्रायश्चित्तविशेषदर्शनात् ॥ अतएव प्रचेतसा- 'स्त्रीगर्भिणीगोगर्भिणीबालवृद्धवधेषु भ्रूणहा भवति' इति । ईदृग्विधमेव गोवधमभिसंधाय ब्रह्महत्यावतमतिदिष्टम् । द्वितीयं तु याम्यं गोशतदानयुक्तं त्रैमासिकं व्रतं कात्यायनीयव्रतविषये धनवतो द्रष्टव्यम् ॥ यत्तु गौतमेन वृषभैकशतगोदानसमुचितं त्रैवार्षिक प्राकृतं ब्रह्मचर्य वैश्यवधेऽभिधाय गोवधेऽतिदिष्टम्-'गां च हत्वा वैश्यवत्' इति । एतञ्च त्रैवार्षिकवतप्रत्याम्नायभूतनवतिधेनुभिः सार्धं वृपभैकशता गावो नवन्यूनं द्विशतं भवतीति गोसहस्रयुक्तत्रैमासिकवतान्यूनत्वात्पूर्वोक्तविषये एव कामतो वधे । यद्वा तत्रैव विषये गर्भरहितायाः कामतो वधे द्रष्टव्यम् । तादृग्विधाया एव गर्भरहितायास्त्वकामतो हननेऽपि कात्यायनीयमेव त्रैवार्षिकं कल्प्यम् ॥ यत्तु यमेनोक्तम्- 'काष्ठकोष्ठाश्मभिर्गावः शस्त्रैर्वा निहता यदि । प्रायश्चित्तं कथं तत्र शस्त्रेऽशस्त्र विधीयते ॥ काष्ठे सान्तपनं कुर्याप्राजापत्यं तु लोष्ठके। तप्तकृच्छ्रे तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ॥ प्रायश्चित्ते ततश्वीरें कुर्याद्राह्मणभोजनम् । त्रिंशद्वा वृषभं चैकं दद्यात्तेभ्यश्च दक्षिणाम् ॥' इति, तत्पूर्वोक्तगोसहस्रशतादिदानत्रैवार्षिकादिव्रतविषयेष्वेव काष्ठादिसाधनविशेषजनितवधनिमित्तसान्तपनादिपूर्वकत्वप्रतिपादनपरं नतु निरपेक्षं, लघुत्वाद्रतस्य । तथा वयोविशेषादपि प्रायश्चित्तविशेष उक्तः-'अतिवृद्धामतिकृशामतिबालां च रोगिणीम् । हत्वा पूर्व विधानेन चरेदर्धव्रतं द्विजः ॥ ब्राह्मणाभोजयेच्छत्या दद्याद्धेम तिलांस्तथा ॥' इति ॥ नीरोगादिवधे यद्विहितं तस्यार्धम् ॥ बृहत्प्रचेतसाप्यत्र विशेष उक्तः-'एकवर्षे हते वत्से कृच्छ्रपादो विधीयते । अबुद्धिपूर्वे पुंसः स्याविपादस्तु द्विहायने ॥ त्रिहायने त्रिपादः स्याप्राजापत्यमतःपरम् ॥' इति ॥ तथा गर्भिण्या वधे यदा गर्भोऽपि निहतो भवति तदा 'प्रतिनिमित्तं नैमित्तिकमावर्तते' इति न्यायेनाविशेषेण द्विगुणवतप्राप्तौ षत्रिंशन्मते विशेष उक्तः-'पाद उत्पन्नमात्रे तु द्वौ पादौ दृढतां गते । पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ अङ्गप्रत्यङ्गसंपूर्णे गर्भे चेतःसमन्विते । त्रिगुणं गोव्रतं कुर्यादेषा गोनस्य निष्कृतिः ॥' इति ॥ बहुकर्तृके तु हनने संवर्तापस्तम्बौ विशेषमाहतुः—'एका चेद्बहुभिः काचिदैवायापादिता कचित् । पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥' इति । यादृग्विधगोहत्यायां यद्रतमुपदिष्टं तत्पादं प्रत्येकं कुर्युर्वचनात् । एका चेदित्युपलक्षणम् । अतो बहुभिर्द्वयोर्बहूनां च व्यापादने प्रतिपुरुषं पादद्वयं पादोनं वा कल्पनीयम् । एतच्चाकामतो वधे द्रष्टव्यम् । देवादिति विशेषणोपादानात् । कामकारे तु
१ सप्रतिशं ङ. २ प्रायश्चित्तं पृथक्तत्र धर्मशास्त्रे विधीयते ङ.
For Private And Personal Use Only