________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता।
४१७ म्यकृच्छ्राभिप्रायम् । अतः स्त्रीशूद्रयोः प्रतिलोमजानां च त्रैवर्णिकवद्रताधिकार इति सिद्धम् । यत्तु गौतमवचनम्-'प्रतिलोमा धर्महीनाः' इति, तदुपनयनादिविशिष्टधर्माभिप्रायम् ॥ २६२ ॥
इति पञ्चमहापातकप्रायश्चित्तप्रकरणम् । महापातकादिपञ्चकमध्ये महापातकातिपातकानुपपातकप्रायश्चित्तान्युक्त्वाधुनोपपातकप्रायश्चित्तानि व्याचक्षाणः पाठक्रमप्राप्तं गोवधप्रायश्चित्तं तावदाह
पञ्चगव्यं पिबेगोनो मासमासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥ २६३ ॥ कृच्छ्रे चैवातिकृच्छ्रे च चरेद्वापि समाहितः।।
दद्यात्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः ॥ २६४ ॥ गां हन्तीति गोनः । मूलविभुजादित्वात्कप्रत्ययः । असौ मासं समाहित आसीत । किं कुर्वन् । पञ्च च तानि गव्यानि गोमूत्रगोमयक्षीरदधिघृतानि यथाविधि मिश्रितानि पिबन, माहारान्तरपरित्यागेन भोजनकार्ये तस्य विधानात् । तथा गोष्ठेशयः । प्राप्तशयनानुवादेन गोष्ठविधानाद्दिवा च स्वापप्रतिषेधाद्रात्रौ गोशालायां शयानः । गा अनुगच्छति तदस्य व्रतमिति गोऽनुगामी । व्रते णिनिः । अतश्च यासां गोष्ठे शेते सन्निधानात्ता एव गाः प्रातर्वनं विचरन्तीरनुगच्छेत् । अनुगच्छेदिति वचनाद्यदा ता गच्छन्ति तदैव स्वयमनुगच्छेत् । यदातु तिष्ठन्त्यासते वा तदा पश्चाद्वमनस्याशक्यकरणत्वात्स्वयमपि तिष्ठेदासीत वेति गम्यते । अनुगमनविधानादेव ताभिः सायं गोष्ठं व्रजन्तीभिः सह गोष्ठप्रवेशोs. प्यर्थसिद्धः । एवं कुर्वन्मासान्ते गोप्रदानेन एकां गां दत्त्वा तावता शास्त्रार्थस्य संपत्तेर्गोहत्यायाः शुध्यतीत्येकं व्रतम् । मासं गोष्टेशयो गोऽनुगामीत्यनुवर्तते । पञ्चगव्याहारस्य तु निवृत्तिः कृच्छ्रविधानादेव । अतश्च मासं निरन्तरं कृच्छं समाहितश्चरेदित्यपरम् । अतएव जाबालेन मासप्राजापत्यस्य पृथक् प्रायश्चित्तत्वमुक्तम्-'प्राजापत्यं चरेन्मासं गोहन्ता चेदकामतः । गोहितो गोऽनुगामी स्याद्गोप्रदानेन शुध्यति ॥' इति । अतिकृच्छ्रे वा तथैव समाचरेदित्यन्यत् । कृच्छ्रातिकृच्छ्रयोर्लक्षणमुत्तरत्र वक्ष्यते । अथवा त्रिरात्रमुपवासं कृत्वा वृषभ एकादशो यासांगवां ता दद्यादिति व्रतचतुष्टयम् । तत्राकामकृते जातिमात्रब्राह्मणस्वामिकगोमात्रवधे उपवासं कृत्वा वृषभैकादशगोदानसहितस्त्रिरात्रोपवासो द्रष्टव्यः । विशिष्टस्वामिकाया विशिष्टगुणवत्याश्च वधे गुरुप्रायश्चित्तस्य वक्ष्यमाणत्वात् । क्षत्रियसंबन्धिन्यास्तु तादृग्विधे व्यापादने मासं पञ्चगव्याशित्वं प्रथमं प्रायश्चित्तम् । अत्र मासपञ्चगव्याशनस्यातिस्वल्पत्वान्मासोपवासतुल्यत्वम् । ततश्च षड्भिः षड्निरुपवासैरेकैकप्राजापत्यकल्पनया पञ्चकृच्छ्राणां प्रत्याम्नायेन पञ्च धेनवो मासान्ते च दीयमाना गौरेकेति षट् धेनवो भवन्तीति वृषभैकादशगोदानसहितत्रिरात्रव्रताल्लघीयस्त्वम् । कथं पुनर्ब्राह्मणगवीनां गुरुत्वम् । 'देवब्राह्मणराज्ञां तु विज्ञेयं द्रव्यमुत्तमम्' इति नारदेन तव्यस्योत्त
For Private And Personal Use Only