________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
प्यत्र विशेष उक्तः–'सुवर्णस्तेनः प्रकीर्णकेश आर्द्रवासा आयसं मुसलमादाय राजानमुपतिष्टेदिदं मया पापं कृतमनेन मुसलेन मां घातयस्वेति स राज्ञा शिष्टः सन्पूतो भवति' इति । हननं चावृत्तिविधानाभावात्सकृदेव कार्यम् । अतएव मनुनोक्तम् (११।१००)-'ततो मुसलमादाय सकृद्धन्यात्तु तं स्वयम्' इति । एवं सकृत्ताडनेन राज्ञा हतो मृतः शुद्ध्येत्, मुक्तो वा मरणाजीवग्नपि विशुधे. दिति यावत् ॥ तथाच संवर्तेनोक्तम्-'ततो मुसलमादाय सकृद्धन्यात्तु तं स्वयम् । यदि जीवति स स्तेनस्ततः स्तेयाद्विशुध्यति ॥' इति ॥ यथोक्तं ब्राह्मणवधे-'मृतकल्पः प्रहारा” जीवन्नपि विशुध्यति' इति ॥ नन्वताडित एव राज्ञा मुक्तः स्तेनः शुध्येदित्ययमर्थः कस्मान्नेष्यते। उच्यते। अनघ्नन्नेनस्वी राजेति गौतमीये ताडनमकुर्वतो राज्ञो दोषाभिधानात् । भवतु राज्ञो दोषस्तथाप्यतिक्रान्तनिषेधेन राज्ञा स्नेहादिनामुक्तः स्तनः कथं न शुध्येदिति चेत् । उच्यते। एवंच सति अकारणिका शुद्विरापतेत् । अथोच्यते । मोक्षोत्तरकालं द्वादशवार्षिकाद्यनुष्टानेन शुद्ध्यङ्गीकरणानाकारणिकेति । तदप्यसुन्दरम् । मुक्तः शुचिः रिति मोक्षस्यैव शुद्धि हेतुत्वाभिधानात् । अतः प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाजीवन्नपि विशुध्येदिति यावत् । इदं च मरणान्तिकं सार्ववर्णिकस्यापहर्तुर्न तु ब्राह्मणस्यैव । ब्राह्मणस्वर्णहारीति नैमित्तिकवाक्ये विशेषानुपादानात् क्षत्रियादीनां च महापातकित्वाविशेषात्प्रायश्चित्तान्तरस्यानाम्नानाच्च । यत्पुन. निवे ( १९९९)- 'सुवर्णस्तेयकृद्विप्रः' इति विप्रग्रहणं तन्नरमानोपलक्षणम्। 'प्रायश्चित्तीयते नर' इति तस्यैव प्रकृतत्वात् । (मनुः ११५४)-'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः' इति निमित्तवाक्ये विशेषानुपादानाच्च । तत्सापेक्षनैमित्तिकवाक्ये 'सुवर्णस्तेयकृद्विप्रः' इत्यत्र श्रूयमाणमप्युपलक्षणमेव युक्तम् । यथाभ्युदितेष्ट्यां यस्य हविरिति वाक्ये तन्दुलग्रहणं हविर्मात्रस्य ॥ इदंच राज्ञा हननं ब्राह्मणव्यतिरिक्तस्य । (११३८०)-'न जातु ब्राह्मणं हन्यात्सर्वपापेध्वपि स्थितम्' इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिदतिक्रान्तनिषेधे राज्ञा हन्यते तथापि शुद्धो भवति । ( मनुः ११११००)-'वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव वा' इति ब्राह्मणस्यापि वधेन शुध्धभिधानात् । नच तपसैव वेत्येवकारेण वधनिषेधः। तस्य केवलतपसापि शुज्यभिधानपरत्वात् । यदि वधो निषिद्धस्तहि तपसैव वेति विकल्पाभिधानमनुपपनम् । नच दण्डाभिप्रायं विकल्पाभिधानम् । तस्या निर्दिष्टत्वात् । किंच 'एकार्थास्तु विकल्पेरन्' इति न्यायेनैकार्थानामेव विकल्पो ब्रीहियवयोरिव । नच दण्डतपसोरेकार्थत्वम् । दण्डस्य दमनार्थत्वात्तपसश्च पापक्षयहेतुत्वात् । नच वधेन शुध्यति स्तेन इति सामान्याविषयेण वधेन ब्राह्मणस्तपसैव वेति विशिष्टविषयस्य तपसो विकल्पोपपत्तिः। नहि भवति ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डिन्याये वेति विकल्पस्तस्माद्वयोरपि सामान्यविषयत्वमेव । यद्वा क्षत्रियस्यापि न निषेधः । मनुना 'सुवर्णस्तेयकृद्विप्र' इत्यभिधाय (११११००)-'गृहीत्वा मुसलं
१ मनुस्मृतौ तु-गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ इति पाठान्तरम् .
या०३७
For Private And Personal Use Only