________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
त्वा पञ्चरात्रं शङ्खपुष्पीशृतं पयः पिवेत्' इति ॥ ज्ञानतोऽभ्यासे तु शङ्खनो - क्तम्— 'मद्यभाण्डस्थितं तोयं पीत्वा सप्तरात्रं गोमूत्रयावकं पिबेत्' इति ॥ अत्यन्ताभ्यासे तु हारीतोक्तम्- 'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद्विजः । द्वादशाहं तु पयसा पिबेद्राह्मीं सुवर्चलाम् ॥' इति । एषु च वाक्येषु द्विजग्रहणं ब्राह्मणाभिप्रायम् । क्षत्रियवैश्ययोरप्रतिषेधादिति दर्शितं प्राकू ॥ इदं च गौडीमाध्वीभाण्डस्थजलपानविषयं गुरुत्वात्प्रायश्चित्तस्य । तालादिमद्यभाण्डोदकपाने तु कहण्यम् ॥ २५५ ॥ द्विजातिभार्या प्रत्याह
पतिलोकं न सा याति ब्राह्मणी या सुरां पिवेत् । sa सा शुनी गृधी सूकरी चोपजायते ।। २५६ ॥
या द्विजातिभार्या सुरां पिबति सा कृतपुण्यापि सती पतिलोकं न याति किंत्विहैव लोके श्रगृध्रसूकरलक्षितां तिर्यग्योनिं क्रमेण प्राप्नोति ॥ ब्राह्मणीग्रहणं चात्र 'तिस्रो वर्णानुपूर्व्येण' इति न्यायेन यस्य द्विजातेर्यावत्यो भार्यास्तासामुपलक्षणम् । अतएव मनुः - ' पतत्यर्धे शरीरस्य यस्य भार्या सुरां पिबेत् । पतितार्धशरीरस्य निष्कृतिर्न विधीयते ॥' इति । धर्मार्थकामेषु सहाधिकाराद्दम्पत्योरेकशरीरत्वमेव, अतो यस्य द्विजातेर्भार्या सुरां पिबति तस्य भार्यारूपमर्ध शरीरं पतति । पतितस्य च भार्यारूपस्यार्धशरीरस्य निष्कृतिर्न विधीयते । तस्माद्विजातिभार्यया ब्राह्मण्याद्यया न सुरा पेया । ' तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेत्' इति निषेधविधौ लिङ्गस्याविवक्षितत्वेन वर्णत्रयभार्याणामपि प्रतिषेधे सिद्धे पुनर्वचनं द्विजातिभार्यायाः शूद्राया अपि सुराप्रतिषेधप्रात्यर्थम् । अतो द्विजातिभार्याभिः सुरापाने प्रायश्चित्तस्यार्धं कार्यम् । शूद्रभार्यायास्तु शूद्रायाः शूद्रवदेव न प्रतिषेधः । सुरापानसमेषु तु निषिद्धभक्षणादिषु सुरापानप्रायश्चित्तार्धमित्युक्तं प्राक् ॥ २५६॥ इति सुरापानप्रायश्चित्तप्रकरणम् ।
क्रमप्राप्तं सुवर्णस्तेयप्रायश्रित्तमाह
ब्राह्मणस्वर्णहारी तु राज्ञे मुसलमर्पयेत् ।
स्वकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचिः ॥ २५७ ॥ ब्राह्मणस्वामिकं सुवर्णं योऽपहरत्यसौ सुवर्णस्तेयं मया कृतमित्येवं स्वकर्म ख्यापयन् राज्ञे मुसलं समर्पयेत् । मुसलसमर्पणस्य दृष्टार्थत्वात्तेन मुसलेन राजा तं हन्यात् । तेन राज्ञा हतो मुक्तो वा शुद्धो भवति । अपहरणशब्देन च समक्षं परोक्षं वा बलाचौर्येण वा क्रयादिस्वत्वहेतुं विना ग्रहणमुच्यते । मुसलं समर्पयेदिति यद्यपि समान्येनोक्तं तथापि तस्य हननार्थत्वात् तत्समर्थस्यायो मयादेर्यहणम् । अतएव मनुनोक्तम् ( ८/३१५ ) – स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् । असि चोभयतस्तीक्ष्णमायसं दण्डमेव वा ॥' इति ॥ शङ्खेना
१ शक्ति चोभयतस्तीक्ष्णामिति पाठः.
For Private And Personal Use Only