________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
तत्सोमयाजिन एवामतिपूर्वे । मतिपूर्वे तु द्विगुणम् । अपीतसोमस्य तु कल्प्यम् । साक्षात्सुरागन्धाघ्राणस्य तु 'घ्रातिर यमद्ययोः' इति जातिभ्रंशकरत्वात् (११॥ १२४)-'जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रे प्राजापत्यमनिच्छया ॥' इति मनूक्तं द्रष्टव्यम् ॥ २५४ ॥ एवं मुख्यसुरापाने प्रायश्चित्तमुक्त्वा मद्यपाने प्रायश्चित्तमाह
अज्ञानात्तु सुरां पीत्वा रेतोविण्मूत्रमेव च ।
पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ २५५ ॥ यः पुनरज्ञानादुदकबुद्ध्या सुरां मद्य ब्राह्मणः पिबति ये च ब्राह्मणादयो रेतो विण्मूत्राणि प्राश्नन्ति ते त्रयोऽपि द्विजातयो वर्णास्तप्तकृच्छ्रपूर्वकं पुनरुपनयनं प्रायश्चित्तमर्हन्ति । अत्र मद्यपाने योऽयं पुनःसंस्कारः स ब्राह्मणस्यैव । क्षत्रियविशोस्तदभ्यनुज्ञानस्य दर्शितस्वात् । सुराशब्दश्चात्र मद्यपरः । प्रायश्चित्तस्यातिलघुत्वात् । अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच्च । अतएव गौतमेनात्र मद्यशब्दः प्रयुक्तः । अमत्या मद्यपाने पयो घृतमुदकं वा व्यहं ततानि पिबेत्स तप्तकृच्छ्रस्ततोऽस्य संस्कारो मूत्रपरीषकुणपरेतसां प्राशने चेति । यदप्यस्मिन्नेव विषये मनुनोक्तम् (११११४६)-'अज्ञानाद्वारुणी पीत्वा संस्कारेण विशुद्ध्यति' इति, तदपि तप्तकृच्छ्रपूर्वकमेव गौतमवाक्यानुरोधात् । पुनःसंस्कारश्च पुनरुपनयनम् । तच्चाश्वलायनायुक्तकमेण कर्तव्यम् । यथोतम्-'अथोपेतपूर्वस्य कृताकृतं केशवपनं मेधाजननं चानिरुक्तं परिदानं कालश्च तत्सवितुर्वृणीमह इति सावित्रीम्' इति । मतिपूर्वमद्यपाने वसिष्ठोक्तं द्रष्टव्यम्-'मत्या मद्यपाने त्वसुरायाः सुरायाश्वाज्ञानो कृच्छ्रातिकृच्छ्रौ घृतप्राशनं पुनःसंस्कारश्च' इति । चान्द्रायणं वा शलोक्तम्-'असुरामद्यपायी थान्द्रायणं चरेत्' इति । मुखमात्रप्रवेशे तु मद्यस्यापस्तम्बीयं षडात्रम्-'अभक्ष्याणामपेयानामलेह्यानां च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च । एतेषामुदकं पीत्वा षड्रात्रेण विशुद्ध्यति ॥' इति । एतच्च तालादिमद्यविषयम् । गौडीमाव्योः पुनरज्ञानतः पाने 'असुरायाः सुरायाश्चाज्ञानतः' इति वसिष्ठोक्तः कृच्छ्रातिकृच्छ्रसहितः पुनःसंस्कारो घृतप्राशश्च द्रष्टव्यः । तयोर्मतिपूर्वपाने तु 'पिण्याकं वा कणान्वा' इति त्रैवार्षिकम् । कामतस्तु तत्पानाभ्यासे 'अभ्यासे तु सुराया अग्निवर्णी सुरां पिबेन्मरणात्पूतो भवति' इति वासिष्ठं मरणान्तिकं द्रष्टव्यम् । नात्र सुराशब्दः पैष्ट्यभिप्रायः । तस्याः सकृत्पानेऽपि मरणान्तिकस्य दर्शितत्वात् ॥ मद्यवासितशुष्कभाण्डस्थोदकस्याज्ञानतः पाने बृहद्यमोक्तम्-'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेट्विजः । कुशमूलविपक्केन त्र्यहं क्षीरेण वर्तयेत् ॥' इति ॥ अज्ञानतोऽभ्यासे तु वसिष्ठेनोक्तम्-'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिवेद्विजः । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ॥ एतेषामुदकं पीया त्रिरात्रेण विशुध्यति ॥' इति । ज्ञानतः पाने तु विष्णूक्तम्-'मद्यभाण्डस्थितं तोयं पी
For Private And Personal Use Only