SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ४०० Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः 1 पेयात्सवनानुकल्पं स्थानासनाभ्यां विहरंस्त्रिभिर्वर्षैः पापं व्यपनुदति' इति । यत्त्वङ्गिरोवचनम् - 'महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः' इति, तदुभयमपि पिण्याकं वा कणान्वेत्यनेनैकविषयम् । यदपि यमेन प्रायश्चित्तद्वयमुक्तम्— 'बृहस्पतिसवेनेष्ट्रा सुरापो ब्राह्मणः पुनः । समत्वं ब्राह्मणैर्गच्छेदित्ये पा वैदकी श्रुतिः ॥ भूमिप्रदानं यः कुर्यात्सुरां पीत्वा द्विजोत्तमः । पुनर्न च पिबेतां तु संस्कृतः स विशुध्यति ॥' इति, तदुभयमपि पूर्वेण सहेक विषयम् ॥ यद्वा अतिरिक्त दक्षिणाकल्पाश्रयणाद्वादशवार्षिकेण सह विकल्प्यते । अत्रापि बालवृद्धादीनां साधैकवर्षीयमनुपनीतानां तु नवमासिकमित्येवं कल्पना कार्या । यत्तु मनुवचनम् ( १११९२ ) - ' कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥' इति तत्तालुमात्र संयोगे सुराया अबुद्धिपूर्वे द्रष्टव्यम् ॥ ननुच द्रवद्रव्यस्याभ्यवहरणं पानमित्युच्यते । अभ्यवहरणं च कण्ठादधोनयनं न ताल्वादिसंयोगमात्रं, अतः कथं तत्र पाननिमित्तं प्रायश्चित्तम् । उच्यते । येन ताल्वादिसंयोगेन विना पानक्रिया न निर्वर्तते सोऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्यपि मुख्यपानाभावान्न महापातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूताव्यभिचारिताल्वादिसंयोगस्यापि प्रतिविद्धत्वेन दोषस्य विद्यमानत्वाद्भवत्येव प्रायश्चित्तम् । 'चरेद्रतमहत्वापि घा तार्थ चेत्समागतः ' इति । यथा हननप्रतिषेधेन तदङ्गभूताध्यवसयादेरपि प्रतिषिद्धत्वात्प्रायश्चित्तविधानम् । यत्तु बौधायनीयम् - " त्रैमासिकममत्या सुरापाने कृच्छ्राब्दपादं चरित्वा पुनरुपनयनम्' इति । यश्च याम्यम् - 'सुरां पीत्वा द्विजं हत्वा रुक्मं हत्वा द्विजन्मनः । संयोगं पतितैर्गत्वा द्विजश्वान्द्रायणं चरेत् ॥' इति । यदपि बार्हस्पत्यम्- 'गौडी माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् । तप्तकृच्छ्रं पराकं च चान्द्रायणमनुक्रमात् ॥' इति, तत्रितयमप्यनन्यौषधसाध्यव्याध्युपशमार्थे पाने वेदितव्यम् । प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसमेवान्नं भक्षयति तदा पुनरुपनयनम् । यथाह मनुः (१ १५० ) - 'अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ' इति ॥ यदाच शुष्कसुराभाण्डस्थोदकं पिबति तदा शातातपोक्तं कुर्यात् - 'सुराभाण्डोदकपाने छर्दनं घृतप्राशनमहोरात्रोपवासश्च' इति ॥ यत्तु बौधायनीयम् - 'सुरापानस्य यो भाण्डेष्वपः पर्युषिताः पिबेत् । शङ्खपुपीविपक्कं तु क्षीरं सर्पिः पिबेsयहम् ॥' इति तत्पर्युषितत्वादधिकम् । अकामतोऽभ्यासे पुनर्मनुनोक्तम् ( ११1१४७ ) - ' अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीतं पयः ॥' इति ॥ यत्तु विष्णूक्तम्- 'अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्' इति तन्मतिपूर्वक पाने । ज्ञानतोऽभ्यासे तु बृहद्यम आह - सुराभाण्डस्थितं तोयं यदि कश्चित्पिबेद्विजः । स द्वादशाहं क्षीरेण पिबेद्राह्मीं सुवर्चलाम् ॥' इति ॥ सुरापस्य मुखगन्धाघ्राणे तु मानवम् ( ११।१४९ ) - ' ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुद्ध्यति ॥' इति, : For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy