________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
३९९ श्रय इति स्थितिः' इति । अतः ‘पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः' इति । 'सर्वपापेषु सुरापानादिष्वपि' इति वचनात्पाद एव सुरापाने प्रायश्चित्तम् । तथा जातूकण्येन मद्यपानेऽपि प्रायश्चित्तमुक्तम्-'अनुपेतस्तु यो बालो मद्यं मोहात्पिबेद्यदि । तस्य कृच्छ्रत्रयं कुर्यान्माता भ्राता तथा पिता ॥' इति । अतो गौतमवचनं सुरादिव्यतिरिक्तशुक्तपर्युषितादिविषयम् । कुमारवचनं तु स्वल्पदोषख्यापनपरम् । अतएव प्रागुपनयनात्कृतदोषस्योपनयनमेव प्रायश्चित्तमित्युक्तं मनुना (२।२७)-'गाभैॉमर्जातकर्मचूडामौञ्जीनिबन्धनैः । बैजिकं गाभिकं चैनो द्विजानामपमृज्यते ॥' इति । अयमत्रार्थः । त्रैवर्णिकानामुत्पत्तिप्रभृति पैष्टीप्रतिषेधः । ब्राह्मणस्य तु मद्यमात्रनिषेधोऽप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य न सुराप्रतिषेधो नापि मद्यप्रतिषेधः ॥ २५३ ॥ प्रायश्चित्तान्तरमाह
वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत ।
पिण्याकं वा कणान्वापि भक्षयेत्रिसमा निशि ॥ २५४ ॥ गोछागादिलोमनिर्मितवस्त्रप्रावृतो वालवासाः । वालवालोग्रहणं चीरवल्कलयोरुपलक्षणार्थम् । 'सुरापगुरुतल्पगौ चीरवल्कलवाससौ ब्रह्महत्याव्रतं चरेयाताम्' इति प्रचेतःस्मरणात् । जटिग्रहणं मुण्डित्वनिराकरणार्थम् । ब्रह्महत्याव्रतं चरेदित्यनेनैव सिद्धे यद्वालवसनादिग्रहणं तदन्यत्र संभवि स्वयं मारितशिरःकपालादिनिवृत्यर्थम् । इदमकामतो जलबुङ्या यः सुरां पिबति तद्विषयम् । (मनुः १११८९)-'इयं विशुद्धिरुदिता प्रमाप्याऽकामतो द्विजम्' इत्यकामित्वोपाधित्वेन विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । अत्र च सुरापानस्य महापातकत्वात्सत्यप्यातिदेशिकत्वे संपूर्णमेव द्वादशवार्षिकं कुर्यान्न पादोनम् । अतएव वृद्धहारीतः-'द्वादशभिर्वमहापातकिनः पूयन्ते' इति । अथवा पिण्याकं पिण्डी तं त्रिसमाः वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कणास्तन्दुललवास्तान्वा पूर्ववद्भक्षयेत् । एतच्च सकृदेव कार्यम् । (११।९२)-'कणान्या भक्षयेदब्दं पिण्याकं वा सकृन्निशि' इति मनुस्मरणात् । अस्य च पिण्याकादि. भक्षणस्य भोजनकार्ये विहितत्वादशनान्तरपरित्यागः। एतच्चोदकबुद्ध्या सुरापाने छर्दनोत्तरकाले वेदितव्यम् । –'एतदेव व्रतं कुर्यान्मयपश्छर्दने कृते । पञ्चगव्यं च तस्योक्तं प्रत्यहं कायशोधनम् ॥' इति व्यासवचनात् । नच सुरासंसृष्टेषदु. पलभ्यमानतद्गन्धरसोदकपानविषयमिदमिति सुन्दरम् । संसर्गेऽपि सुरात्वस्यानपायात् । यथाज्यत्वस्य पृषदाज्ये । अतएव 'आज्यपा इति निगमाः कार्याः न पृषदाज्यपाः' इत्येवमुक्तं न्यायविद्भिः । यत्पुनरापस्तम्बवचनम्-'स्तेयं कृत्वा सुरां पीत्वा गुरुदारान्गत्वा ब्रह्महत्यां च कृत्वा चतुर्थं कालं मितभोजनो योऽभ्यु
१ संभवे श्रयमाणस्वसंबन्धि स्वयं ख. २ पिण्याकपिण्डान् ङ. ३ तंदुलाणवास्तान्वा ङ.
For Private And Personal Use Only