SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्रह्मचारिप्रकरणम् २ ] मिताक्षरासहिता। अतऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः। सावित्रीपतिता व्रात्या वात्यस्तोमाते क्रतोः ॥ ३८॥ आषोडशाद्वर्षात्षोडशवर्ष यावत् आद्वाविंशादाचतुर्विंशाद्वर्षाद्रह्मक्षत्रविशां औपनायनिकः उपनयनसंबन्धी परः कालः । नातःपरमुपनयनकालोऽस्ति किंतु मत ऊवं पतन्त्येते सर्वधर्मबहिष्कृताः सर्वधर्मेष्वनधिकारिणो भवन्ति । सावित्रीपतिताः पतितसावित्रीका भवन्ति । सावित्रीदानयोग्या न भवन्ति । व्रात्याः संस्कारहीनाश्च ब्रौत्यस्तोमात्क्रतोर्विना । कृते तु तस्मिन्नुपनयनाधिकारिणो भवन्ति ॥ ३७ ॥ ३८॥ आधास्त्रयो द्विजा इत्युक्तं तत्र हेतुमाह मातुर्यदये जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥ ३९ ॥ मातुः सकाशात्प्रथमं जायन्ते, मौञ्जिबन्धनाच द्वितीयं जन्म यस्मात्तस्मादेते ब्राह्मणक्षत्रियवैश्या द्विजा उच्यन्ते ॥ ३९ ॥ वेदग्रहणाध्ययनफलमाह यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः ॥४०॥ यज्ञानां श्रौतस्मार्तानां, तपसां कायसंतापरूपाणां चान्द्रायणादीनां, शुभानां च कर्मणां उपनयनादिसंस्काराणां अवबोधकत्वेन वेदएव द्विजातीनां परो निःश्रेयसकरो नान्यः । वेद एवेति तन्मूलकस्वेन स्मृतेरप्युपलक्षणार्थम् ॥ ४०॥ ग्रहणाध्ययनफलमुक्त्वेदानी काम्यब्रह्मयज्ञाध्ययनफलमाह मधुना पयसा चैव स देवांस्तपेयेविजः। पितॄन्मधुघृताभ्यां च ऋचोऽधीते हि योऽन्वहम् ॥४१॥ यजूंषि शक्तितोधीते योऽन्वहं स घृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितृस्तथा ॥४२॥ स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् । सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥४३॥ योऽन्वहमृचोऽधीते स मधुना पयसा च देवान्पिढेश्च मधुघृताभ्यां तर्पयति । यः पुनः शक्तितोऽन्वहं यजूंष्यधीते स घृतामृतैर्देवान्पिढेश्व मधुघृताभ्यां तर्पयति । यस्तु सामान्यन्वहमधीते स सोमघृतैर्दैवान्पितूंश्च मधुसर्पिभ्यां प्रीणाति । ऋगादिग्रहणं सामान्येन ऋगादिमात्रप्रात्यर्थम् ॥ ४ ॥ ४२ ॥४३॥ १ यथाकालमसंस्कृताः इति अपरः पाठः २ ब्राह्मणक्षत्रियविशां ख. ३ ब्रात्यस्तोमो नाम व्रात्यानां प्रायश्चित्तक्रतुः । तेन चोदालकवतादिप्रायश्चित्तान्तरमप्युलक्ष्यते, अपरार्क ४ करो मोक्षकरो ख. ५ काम्यव्रत ख. ६ च यो ख. ७ प्रीणयति क. ८ मत्रप्राध्यर्थ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy