________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । पितॄंश्व मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥ ४४ ॥ वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । इतिहासांस्तथा विद्याः शक्त्याधीते हि योन्वहम् ॥ ४५ ॥ मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् । करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ ४६ ॥ ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
यः पुनः शक्तितोऽन्वहं अथवाङ्गिरसोऽघीते स देवान्मेदसा पितॄंश्च मधुसपिभ्यां तर्पयति । यस्तु वाकोवाक्यं प्रश्नोत्तररूपं वेदवाक्यम् । पुराणं ब्राह्मादि । चकारान्मानवादिधर्मशास्त्रम् । नाराशंसीश्च स्वदैवत्यान्मन्त्रान् । गाथा यगाथेन्द्रगाथाद्याः | इतिहासान्महाभारतादीन् । विद्याश्च वारुणाद्याः । शक्तितोऽन्वहमधीते स मांसक्षीरोदनमधुसर्पिर्भिर्देवान् पितॄंश्च मधुसर्पिभ्यां तर्पयति ॥ ४४ ॥ ४५ ॥ ४६ ॥ ते पुनस्तृप्ताः सन्तो देवाः पितरश्च एनं स्वाध्यायाकारिणं सर्वकामफलैः शुभैरनन्योपघातलक्षणैस्तर्पयन्ति ॥
प्रशंसार्थमाह
यं यं ऋतुमधीते' च तस्य तस्याप्नुयात्फलम् ॥ ४७ ॥ त्रिर्वित्त पूर्णपृथिवीदानस्य फलमश्रुते ।
तैपसश्च परस्येह नित्यस्वाध्यायवान्द्विजः ॥ ४८ ॥ यस्य यस्य क्रतोः प्रतिपादकं वेदैकदेशमन्वहमधीते तस्य तस्य क्रतोः फलमवाप्नोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत्फलं परस्य तपसश्चान्द्रायणादेर्यत्फलं तदपि नित्यस्वाध्यायवानामोति । नित्यग्रहणं काम्यस्यापि सतो नित्यत्वज्ञापनार्थम् ॥ ४७ ॥ ४८ ॥
एवं सामान्येन ब्रह्मचारिधर्मानभिधायाधुना नैष्ठिकस्य विशेषमाह -
नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ ।
तदभावेऽस्य तनये पत्त्यां वैश्वानरेऽपि वा ।। ४९॥ अनेन विधिना देहं साधयन्विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ।। ५० ।।
उक्तेन प्रकारेणात्मानं निष्ठा उत्क्रान्तिकालं नयतीति नैष्ठिकः स यावज्जीवमाचार्यसमीपे वसेत् । न वेदग्रहणोत्तरकालं स्वतन्त्रो भवेत् । तदभावे तत्पुत्रसमीपे तदभावे तद्भार्यासमीपे तदभावे वैश्वानरेऽपि । अनेनोक्तविधिना देहं साधयन्
I
१ यथा - पृच्छामि त्वा परमन्तं पृथिव्याः इति प्रश्नः, इयं वेदिः परो अन्तः इत्युत्तरम्. एवमन्यदपि वाकोवाक्यं ज्ञेयम्. २ मधीतेऽसौ ख. ३ तपसो यत्परस्य ख. ४ अनेनोक्तप्रकारेण. ख. ५ ग्रहणकालोत्तरं ख. ६ स्वोपास्याग्निसंनिधौ ख.
For Private And Personal Use Only