________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
मधु क्षौद्रं न मथम् । तस्य 'नित्यं मद्यं ब्राह्मणो वर्जयेत्' इति निषेधात् । मांसं छागादेरपि । अञ्जनं घृतादिना गात्रस्य, कज्जलादिना चाक्ष्णोः । उच्छिष्टमगुरोः । शुक्तं निष्ठुरवाक्यं नोनरसः, तस्याभक्ष्यप्रकरणे निषेधात् । स्त्रियमुपभोगे । प्राणिहिंसनं जीववधः । भास्करस्योदयास्तमयावलोकनम् । अश्लीलमसत्यभाषणम् । परिवादः सदसद्रूपस्य परदोषस्य ख्यापनम् | आदिशब्दात्स्मृत्यन्तरोक्तं गन्धमायादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ ३३ ॥
गुर्वाचार्यादिलक्षणमाह
स गुरुः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ ३४ ॥
aisai गर्भाधानाथा उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदमस्मै ब्रह्मचारिणे प्रयच्छति स गुरुः । यः पुनरुपनयनमात्रं कृत्वा वेदं प्रयच्छति स आचार्यः ॥ ३४ ॥
उपाध्यायविंग्लक्षणम् -
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥ ३५ ॥
वेदस्यैकदेशं मन्त्रब्राह्मणयोरेकं अङ्गानि वा योऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृत्तः करोति स ऋत्विक् । एते च गुर्वाचार्योपाध्यायविजो यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥ ३५ ॥
वेदग्रहणार्थं ब्रह्मचर्यावधिमाह -
प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तचैव षोडशे ॥ ३६ ॥
यदा विवाहासंभवे वेदानधीत्य वेदौ वा वेदं वेति प्रवर्तते तदा प्रतिवेद वेदवेदं प्रति ब्रह्मचर्य पूर्वोक्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । ग्रहणान्तिकमित्येके वर्णयन्ति । केशान्तः पुनमदानाख्यं कर्म गर्भादारभ्य षोडशे वर्षे ब्राह्मणस्य कार्यम् । एतच्च द्वादशवार्षिके वेदवते बोद्धव्यं इतरस्मिन्पक्षे यथासंभवं द्रष्टव्यम् । राजन्यवैश्ययोस्तूपनयनकालवद्वाविंशे चतुर्विंशे वा द्रष्टव्यम् ॥ ३६ ॥ उपनयनकालस्य परमावधिमाह
आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात्
1
ब्रह्मविशां काल औपनायनिकः परः || ३७ ॥
१ न रसादि क. २ भास्करस्य चालोकनं क. ३ गुह्यभाषणं ख. ४ ददाति ख. ५ गावः केशा दीयन्ते खण्डयन्ते यस्मिन्. ६ वा यथासंभवं ख.
For Private And Personal Use Only