________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचारिप्रकरणम् २] मिताक्षरासहिता ।
तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं काष्र्णादि, उपवीतं कार्पासादिनिर्मितं, मेखलां च मुञ्जादिनिर्मितां, ब्राह्मणादिर्ब्रह्माचरी धारयेत् ॥
भैक्षचर्याप्रकारः
ब्राह्मणेषु चरेद्वैक्षमनिन्द्येष्वात्मवृत्तये ॥ २९ ॥ आदिमध्यावसानेषु भवच्छब्दो पलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ ३० ॥
1
पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेष्वनिन्द्येषु अभिशस्तादिव्यतिरिक्तेषु स्वकर्मनिरतेषु भैक्षं चरेत् । आत्मवृत्तये आत्मनो जीवनाय न परार्थं आचार्यतद्भार्यापुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । तदभावे तत्पुत्रादाविति नियमात् । अत्रच ब्राह्मणग्रहणं संभवे सैति नियमार्थम् । यत्तु सार्ववर्णिकं भैक्षचरणमिति तत्रैवर्णिकेंविषयम् । यच्च चातुर्वण्यं चरेद्वैक्षमिति तदापद्विषयम् । कथं भैक्षचर्या कार्या । आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । भवति भिक्षां देहि । भिक्षां भवति देहि । भिक्षां देहि भवति इत्येवं वर्णक्रमेण भैक्षचर्या कार्या ॥ २९ ॥ ३० ॥
भोजन प्रकार :
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
अपोशन क्रियापूर्व सत्कृत्यान्नमकुत्सयन् ॥ ३१ ॥
पूर्वोक्तेन विधिना भिक्षामाहृत्य गुरवे निवेद्य तदनुज्ञया कृताभिकार्यो वाग्यतो मौनी अन्नं सत्कृत्य संपूज्य अकुत्सयन्ननिन्दन् अपोशनक्रियां अमृतीपस्तरणमसीत्यादिकां पूर्वं कृत्वा भुञ्जीत । अत्र पुनरग्निकार्यग्रहणं संध्याकाले कथंचिकृताद्मिकार्यस्य कालान्तरविधानार्थं न पुनस्तृतीयप्रात्यर्थम् ॥ ३१ ॥
ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि ।
ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ॥ ३२ ॥
ब्रह्मचर्ये स्थित एकानं नाद्यादनापदि व्याध्याद्यभावे । ब्राह्मणः पुनः श्राद्धे, ऽभ्यर्थितः सन् कॉममश्नीयात् । व्रतमपीडयन् मधुमांसपरिहारेण । अत्र ब्राह्मणग्रहणं क्षत्रियादेः श्राद्ध भोजनव्युदासार्थम् । 'राजन्यवैश्ययोश्चैव नैतत्कर्म प्रचक्षते' इति स्मरणात् ॥ ३२ ॥
मधुमांसादिवर्ज्यान्याह -
मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥ ३३ ॥
१ कार्ष्णाजिनादि ख. २ दिदोषरहितेषु. ख. ३ सति । न नियमार्थं ख. ४ त्रैवर्णिकाप्राहयर्थम्. ख. ५ कालान्तरं मध्याह्नादि. ६ एकान्नमेकस्वामिकम्. ७ कामं यथेष्टम्.
For Private And Personal Use Only