________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३९१
भिप्रायेणोक्तं मनुना ( ११1८० ) - ' विप्रस्य तन्निमित्ते वा प्राणलाभे विमु'व्यते' इति ॥ २४५ ॥
आनीय विप्रसर्वस्वं हृतं घातित एव वा । तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुद्ध्यति ॥ २४६ ॥
I
किंच । विप्रस्यापहृतसर्वस्वतयावसीदतः संबन्धि द्रव्यं भूहिरण्यादिकं चौरैहृतं साकल्येनानीय रक्षणं यः करोति स विशुद्ध्यति । आनयने प्रवृत्तः स्वयं चौरैर्घातितो वा यदि वा तन्निमित्तं ब्राह्मणसर्वस्वानयनार्थं तत्र युध्यमानः शस्त्रैः क्षतो मृतकल्पो जीवन्नपि विशुद्ध्यति । शस्त्रैरिति बहुवचनं क्षतबहुत्वप्रात्यर्थम् | अतएव मनुना (११/८० ) - 'ज्येवरं प्रतिरोद्धा वा सर्वस्वमवजित्य वा' इति त्र्यवरग्रहणं कृतम् । एतस्य श्लोकद्वयोक्तकल्पपञ्चकस्य ब्राह्मणरक्षणरूपकत्वेनान्तरा वा ब्राह्मणं मोचयितवेत्यनेन शङ्खवचनेन क्रोडीकृतत्वात् द्वादशवार्षिकसमाहयवधित्वेनेतरग्रहणे विनियोगान्न स्वातन्त्र्यम् ॥ २४६ ॥
प्रायश्चित्तान्तरमाह
लोमभ्यः स्वाहेत्येवं हि लोमप्रभृति वै तनुम् । मज्जान्तां जुहुयाद्वापि मन्त्रैरेभिर्यथाक्रमम् ।। २४७ ॥
लोमभ्यः स्वाहेत्येवमादिभिर्मन्त्रैर्लोमप्रभृति मज्जान्तां तनुं जुहुयात् । इतिशब्दः करणत्व निर्देशार्थः । एवंशब्दः प्रकारसूचनार्थः । हिशब्दः स्मृत्यन्तरप्रसिद्धत्वगादीनां प्रभृतिशब्देनाक्षिप्यमाणानां द्योतनार्थः । ततश्च लोमादीनि होमद्रव्याणि चतुर्थ्यां निर्दिश्यन्ते स्वाहाकारं पठित्वा तैर्मन्त्रैर्जुहुयात् । ते च डूयमानद्रव्याणां लोमत्व ग्लोहित मांसमेदः स्वाय्वस्थिमज्जानामष्टसंख्यत्वादष्टौ मन्त्रा भवन्ति । तथाच वसिष्ठः - 'ब्रह्महानिमुपसमाधाय जुहुयालोमानि मृत्योर्जुहोमि लोमभिर्मृत्युं वाशय इति प्रथमाम् । १ । त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वाशय इति द्वितीयाम् । २ । लोहितं मृत्योर्जुहोमि लोहितेन मृत्युं वाशय इति तृतीयाम् । ३ । मांसानि मृत्योर्जुहोमि मांसैर्मृत्युं वाशय इति चतुर्थीम् | ४ | मेदो मृत्योर्जुहोमि मेदसा मृत्युं वाशय इति पञ्चमीम् । ५ । स्नायूनि मृत्योर्जुहोमि स्नायुभिर्मृत्युं वाशय इति षष्ठीम् । ६ । अस्थीनि मृत्योर्जुहोमि अस्थिभिर्मृत्युं वाशय इति सप्तमीम् । ७ । मज्जां मृत्योर्जुहोमि मज्जाभिर्मृत्युं वाशय इत्यष्टमीम् । ८ ।' इति । अत्रच लोमप्रभृति तनुं जुहुयादिति लोमादीनां होमद्रव्यत्वावगमालोमभ्यः स्वाहेति सत्यपि चतुर्थीनिर्देशे लोमादीनां न देवतात्वं कल्प्यते । द्रव्यप्रकाशनेनैव मन्त्राणां होमसाधनत्वोपपत्तेः । किंतु लोमभिर्मृत्युं वाशय इत्यादिवसिष्ठमन्त्रपर्यालोचनया मृत्योरेव हविः संबन्धावगमाद्देवतास्वं कल्प्यते । अतश्च लोमादीनि सामर्थ्यात्स्वधितिनावदाय मृत्यूद्देशे
१ त्रिवारं क. २ भ्रूणहाग्निमिति पाठान्तरम्. या० ३६
For Private And Personal Use Only