________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
दशे वर्षे शुद्धिं प्राप्नोत्यन्तरा वा ब्राह्मणं मोर्चयित्वा, गवां द्वादशानां परित्राणासद्य एवाश्वमेधावभृथस्नानाद्वा पूतो भवति' इति । अतएव मनुना (११॥ ७८)-'कृतवापनो वा निवसेत्' इति द्वादशवार्षिकस्य गुणविधिं प्रक्रम्य । (११७९)-'ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजेत् । मुच्यते ब्रह्महत्याया गोता गोर्ब्राह्मणस्य च ॥' इत्यादिना मध्ये ब्राह्मणत्राणादिकमभिधाय (११८१)-'एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥' इति द्वादशवार्षिकमेवोपसंहृतम् ॥ ननु ब्रह्महत्यायाः शुद्धिमानुयादिति ब्राह्मणत्राणादीनां द्वादशवार्षिकेण सहैकफलत्वावगमारस्वातच्यमेव युक्तं न पुनरङ्गत्वम् । किंच प्रधानविरोधित्वादपि नाङ्गत्वम् । प्रधानानुग्राहकं ह्यङ्ग भवति । नच प्रारब्धद्वादशवार्षिकस्येदं विधानम् । येन तत्कार्ये विधानं गम्यते । यथा 'सत्रायावगूर्य विश्वजिता यजेत' इति सत्रप्रयोगप्रवृत्तस्य तत्परिसमापनाक्षमस्य विश्वजिद्विधानमतोऽपि स्वातन्त्र्यमेव युक्तम् । यथाग्निप्र. वेशलक्ष्यभावादीनाम् । नच तेषामपि द्वादशवार्षिकोपक्रमोपसंहारमध्यपठित. स्वेन तदङ्गत्वमिति शङ्कनीयम् । यतः सत्यपि मध्यपाठे नितिप्रयोजनत्वेन प्रयोजनाकाङ्क्षाविरहान्न परस्परमङ्गाङ्गित्वं युक्तम् । यथा सामिधेनीप्रकरणमध्यवैर्तिनां निर्वित्पदानामग्निसमिन्धनप्रकाशत्वेन सामिधेनीभिः सहककार्याणां न सामिधेन्यङ्गत्वम् । नचैकान्ततोऽग्निप्रवेशादीनां द्वादशवार्षिकमध्ये पाठः वसिष्ठगौतमादिभिरेषां द्वादशवार्षिकप्रक्रमात्मागेव पठितत्वात् । इदमेव स्वातत्र्यं प्रकटयितुं मनुना (१११७३)- 'लक्ष्यं शस्त्रभृतां वा स्यात्प्रास्येदात्मानमग्नौ वा' इति प्रतिवाक्यं वाशब्दः पठितः । तथा प्रतिप्रायश्चित्तमेवो. पसंहृतम् (मनुः १११८६)-'अतोऽन्यतममास्थाय विधि विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मशुद्धये ॥' इति । अतोऽग्निप्रवेशादीनां स्वातच्यमेव युक्तम् । अतश्च ब्राह्मणत्राणा देरप्येकफलत्वान्नाङ्गत्वमिति । उच्यते । “परिहृतमेतत् अन्तरा ब्राह्मणं मोचयित्वे'त्यादिना शङ्कवचनेनाङ्गत्वावगमात् । अङ्गस्यैव सतः प्रधानद्वारेण फलसंबन्धः । नच प्रधानविरोधः यतो ब्राह्मणवाणावधिकस्यैव व्रतानुष्ठानस्य फलसाधनत्वं विधीयत इति न विरोधः ॥ २४४ ॥
दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ २४५॥ किंच । दीर्पण बहुकालव्यापिना तीब्रेण दुःसहेनामयेन कुष्टादिव्याधिना अस्तं पीडितं ब्राह्मणं गांवा तथाविधां पथि दृष्ट्वा निरातङ्कं नीरुजं कृत्वा ब्रह्महा शुचिर्भवति । ननु ब्राह्मणस्य परित्राणादित्यत्र यदुक्तं ब्राह्मणरक्षणं तदेव किमर्थं पुनरुच्यते ब्राह्मणं गामथापि वेति । सत्यमेवम् । किंवात्मप्राणपरित्यागेनाधस्तनवाक्ये ब्राह्मणरक्षणमुक्तमधुना पुनरौषधदानादिनेति विशेषः । अमुनवा
१ भोजयित्वा ङ. २ वर्तिनामग्निविदामग्नि ख.
For Private And Personal Use Only