________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३८९
घुकल्पानां बाधो मा प्रसाङ्क्षीदिति व्यवस्था कल्प्यत इति । विकल्पमुच्चयागाङ्गिभावानामन्यतमाश्रयणेनापि बाधस्य सुपरिहरत्वात् । अत्रोच्यते । न ताववादशवार्पिकसेतुदर्शनादीनां विषमकल्पानां विकल्पोऽवकल्प्यते । विकल्पाश्रयणे गुरुकल्पानामनुष्टानासंभवेनानर्थक्यप्रसङ्गात् । नच पोडशिग्रहणाग्रहणवद्विषमयोरपि विकल्पोपपत्तिरिति वाच्यम् । यतस्तत्रापि सति संभवे ग्रहणमेवेति युक्तं कल्पयितुम् । यद्वा षोडशिग्रहणानुगृहीतेनातिरात्रेण क्षिप्रं स्वर्गादिसिद्धिरतिशयितस्य वा स्वर्गस्येति कल्पनीयम् । इतरथा ग्रहणविधेरानर्थक्यप्रसङ्गात् । नापि समुच्चयः। उपदेशातिदेशप्राप्तिमन्तरेण समुच्चयो न संभवति । उपदेशावगतनैरपेक्ष्यस्य बाधप्रसङ्गात् । नचाङ्गाङ्गिभावः । श्रुत्यादिविनियोजकानामभावात् । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि विनियोजकानि । अतः परस्परोपमर्दपरिहारार्थ विषयव्यवस्थाकल्पनैवोचिता। सा च जातिशक्तिगुणाद्यपेक्षया कल्पनीया ।-'जातिशक्तिगुणापेक्षं सकृगुद्धिकृतं तथा । अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥' इति देवलस्मरणात् ॥ २४३ ॥ पूर्वोक्तस्य ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्तिकसमाप्स्यवधिमाह
ब्राह्मणस्य परित्राणाद्वां द्वादशकस्य च ।
तथाश्वमेधावभृथस्नानाद्वा शुद्धिमाप्नुयात् ॥ २४४ ॥ यश्चौरव्याघ्रादिभिर्व्यापाद्यमानस्य ब्राह्मणस्यैकस्याप्यात्मप्राणानन्तरे कृत्वा प्रा. गत्राणं करोति गवां द्वादर्शकस्यासावसंपूर्णेऽपि द्वादशवार्षिके शुद्ध्येत् । यद्यपि प्राणत्राणे प्रवृत्तस्तदकृत्वैव म्रियते तथापि शुद्ध्यत्येव । अतएव मनुना (११॥ ७९)-'ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजन् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥' इति । ब्राह्मणरक्षणं तदर्थ मरणं च पृथगुपात्तम् । तथा परकीयाश्वमेधावभृथाख्यकर्माङ्गभूतस्नानसमये स्वयमपि स्नात्वा ब्रह्महत्यायाः शुद्धिं प्राप्नुयात् । सानं च स्वकल्मषं विख्याप्य कुर्यात् । तथाच मनुः (११॥ ८२)-'शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽवभृथे स्नात्वा हय. मेधे विमुच्यते ॥' इति । भूमिदेवा ब्राह्मणा ऋत्विजस्तेषां नरदेवेन यजमानेन राज्ञा समवाये स्वीयमेनः शिष्ट्वा विख्याप्याऽश्वमेधावभृथे स्नात्वा शुध्यति यदि तैरनुज्ञातो भवति। --'अश्वमेधावभृथं गत्वा तत्रानुज्ञातः स्नातः सद्यः पूतो भवति' इति शङ्खमरणात् ॥ अश्वमेधावभृथग्रहणमग्निष्टुन्मध्यानां पञ्चदशरात्रादिक्रत्वन्तराणामग्निष्टुत्समाप्तिकानां वा सर्वमेधादीनामुपलक्षणम् । 'अश्वमेधावभृथे वान्ययज्ञेऽप्यग्निष्टुदन्तश्चेत्' इति गौतमस्मरणात् । अयंच प्रक्रान्तद्वादशवार्षिकस्य कथंचित् ब्राह्मणप्राणत्राणादिकं कुर्वतो व्रतसमाझ्यवधिरुच्यते । यथा सारस्वते सत्रे प्लाक्षं प्रस्रवणं प्राप्योत्थानमृषभैकशतानां वा गवां सहस्रमभावे सर्वस्वंदानं गृहपतिमरणे चेति । न पुनः स्वतन्त्रं प्रायश्चित्तान्तरम् । तथाच शङ्खः-द्वा
१ समस्यावधि ङ. २ कस्य वाऽसंपूर्णोपि ख. ३ लाने च ख. ४ विशुध्यति ङ. ५ सात्वा शुध्येत् ख. ६ सर्वस्वजान्यां, सर्वस्व-याज्याव्यां ङ.
For Private And Personal Use Only